| YouTube Channel

अभक्ष्य (abhakSya)

 
शब्दसागरः
English
अभक्ष्य
mfn.
(-क्ष्यः-क्ष्या-क्ष्यं) Not to be eaten.
E.
neg. भक्ष्य to be eaten.
Capeller Eng
English
अभक्ष्य
a.
not to be eaten.
Yates
English
अ-भक्ष्य (क्ष्यः-क्ष्या-क्ष्यं)
a. Unfit to be
eaten.
Wilson
English
अभक्ष्य
mfn.
(क्ष्यः-क्ष्या-क्ष्यं) Not to be eaten.
E.
neg. भक्ष्य to be eaten.
Apte
English
अभक्ष्य [abhakṣya],
a.
Not to be eaten.
Prohibited from eating. -क्ष्यम् A prohibited article of food.
Apte 1890
English
अभक्ष्य a. 1 Not to be eaten.
2 Prohibited from eating.
क्ष्यं A prohibited article of food.
Monier Williams Cologne
English
अ-भक्ष्य
mfn.
not to be eaten by (instr. or
gen.
Mn.
)
Monier Williams 1872
English
अ-भक्ष्य, अस्, आ, अम्, not to be eaten.
—अ-
भक्ष्य-भक्षण, अम्, n. eating of prohibited
food.
—अभक्ष्य-भक्षिन्, ईम्, इणी, इ, eating for-
bidden food.
Macdonell
English
अभक्ष्य a-bhakṣya, fp. not to be eaten.
Goldstucker
English
अभक्ष्य Tatpur. m. f. n. (-क्ष्यः-क्ष्या-क्ष्यम्)
^1 Unfit to be eaten
e. g. in Yājnav.: अभक्ष्येण द्विजं दूष्यन्दण्ड्य उत्तमसाहसम्
(Mitākṣ.: मूत्रपुरीषादिना भक्षानर्हेणान्नपानादिमिश्रणेन द्र-
व्यरूपेण वा ब्राह्मणं दूषयित्वा &c.)
or see the instance s. v.
अपेय.
^2 What ought not to be eaten, prohibited for eat-
ing
e. g. Patanjali in the introd. to Pāṇ.: लोके तावत्
अभक्ष्यो ग्राम्यकुक्कुटः अभक्ष्यो ग्राम्यसूकर इत्युच्यते भक्ष्यं
नाम क्षुत्प्रतिघातार्थमुपादीयते शक्यं चानेन श्वमांसादिभिरपि
क्षुत्प्रतिहन्तुम् तत्र नियमः क्रियते इदं भक्ष्यमिदमभक्ष्यमिति.
--Manu treats of prohibited articles of food esp. in the
fifth book, Yājnavalkya in the first (v. 160 ff.)
a list of such
eatables may be found too in the Sāntiparvan v. 1313 seqq.
(comp. also Mitramiśra's Dharmaś. Ms. E. I. H. 930. I. fol.
192b. seqq.)
on the penances inflicted for eating such food
see Manu 11. 152 ff., Yājnav. 3. 282, Viṣṇu-Dharmaś. fol. 17 a.,
Mit. प्रा° fol. 91 b. ff., Raghunand. I. p. 317 ff. &c. &c. E.
neg. and भक्ष्य.
Apte Hindi
Hindi
अभक्ष्य
"वि*, न* त*" - -
जो खाने योग्य हो
अभक्ष्य
"वि*, न* त*" - -
खाने के लिये निषिद्ध
अभक्ष्यम्
नपुं*
- -
खाने का निषिद्ध पदार्थ
Shabdartha Kaustubha
Kannada
अभक्ष्य
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ನಿಷಿದ್ಧವಾದ ಆಹಾರ /ಊಟ ಮಾಡಲು ಯೋಗ್ಯವಲ್ಲದ ಆಹಾರ
अभक्ष्य
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ತಿನ್ನಲು ಯೋಗ್ಯವಲ್ಲದ
व्युत्पत्तिः - > भक्षयितुं योग्यम्
अभक्ष्य
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಊಟಮಾಡಲು ನಿಷಿದ್ಧವಾದ
L R Vaidya
English
aBakzya {% a. (f. क्ष्या) %} 1. Unfit to be eaten
2. prohibited for eating.
Lanman
English
a-bhakṣya, a. not to be eaten
as n.
that which ought not to be eaten.
Wordnet
Sanskrit
Synonyms:
अखाद्य, अभोज्य, अभक्ष्य, अनाहार्य
adjective
यः भक्षितुम् अयोग्यः।
"सः अखाद्यस्य फलस्य भक्षणेन मृतः।"
Synonyms:
अभक्ष्य, अनाहार्य, अभोज्य
adjective
भक्षणार्थे अयोग्यः।
"एतद् अभक्ष्यं वस्तु अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
अभक्ष्यं, त्रि, (भक्ष + कर्म्मणि ण्यत्, नञ्समासः ।अभक्षणीयं अखाद्यं यथा, --“अधार्य्यं चर्म्म मे सद्भिः करिष्यसि किमस्थिभिः ।अभक्ष्यं चैव मे मांसं त्वादृशैर्ब्रह्मचारिभिः”
इति रामायणं
(भोजनायोग्यं वस्तु, भक्षणायमन्वादिभिः शास्त्रकारैः निषिद्धं द्विजातिभिः वर्ज्ज-नीयं वस्तु तानि यथा, लशुनगृञ्जनपलाण्ड्वा-ख्यानि त्रीणि स्थूलकन्दशाकानि विष्ठादिजातानितण्डुलीयादीनि लोहितवृक्षनिर्य्यासः छेदनो-द्भववृक्षनिर्य्यासः शेलुफलं गव्यं पेयुषञ्च ।देवाद्यनुद्देशेन आत्मार्थं पक्वाः कृसरसंयावपाय-सापूपाः असंस्कृत पशुमांसं नैवेद्यार्थमन्नानिनिवेदनात् प्राक् हवींषि होमात् प्राक्इत्यादि ।)
वाचस्पत्यम्
Sanskrit
अभक्ष्य
त्रि०
भक्षितुमयोग्यं स्मृतिनिषिद्धित्वात् स्मृति-निषिद्धभक्षणे लशुनादौ अभक्ष्यत्वञ्च वस्तुस्वभावकृतं, काल-कृतं, देशादिनिमित्तकृतं, द्रव्यान्तरयोगकृतं, स्वामिविशेषकृतं, चण्डालाद्रिस्पर्शदर्शनादिदोषकृतम्, पात्रविशेषपाकादि-कृतम्, अधिकारिविशेषकृतञ्चेति तत्तदुपाधिकृतम्, तत्र केषा-ञ्चित् नञादिना केषाञ्चिच्च तत्तद्भक्षणे प्रायश्चित्तोपदेशेनाभक्ष्यत्वं स्मृत्यादाबुक्तम् अभक्ष्याणि श्रुत्यादौ दर्शितानि“न कलञ्जं भक्षयेन्न लशुनं पलाण्डुमितिश्रुतिः “लशुनं गृञ्जनं चैव पलाण्डुं कवकानि चअभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च” मनुः ।। कवकानि छत्राकाः अमेध्यप्रभवानि विष्ठादिजातानि ।पलाण्डुसदृशं यत तु गन्धवर्णरसादिभिः अभोज्यं तद्-भवेत् सर्वमिति “लशुनादिषु ये तुल्या गन्धवर्णरसादिभिः ।अभक्ष्यास्ते द्विजातीनाम्” इति देव० “लशुनपलाण्डु-गृञ्जनकरञ्जकिपाककुम्भीभक्षणे द्वादशरात्रं पयः पिबेत्” शङ्खः“लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस्तथा शेलुंगव्यञ्च पेयूषं प्रयत्नेन विवर्ज्जयेत्” मनुः शेलुं बहुवारफलंगोसम्बन्धि पेयूषं नवप्रसूतायाः गोः अग्निसंयोगात्कठिनीभूतं क्षीरम् “वृथाकृषरसंयावं पायसापूपमेव चअनुपाकृतमांसानि देवान्नापि हवींवि च” मनुः ।वृथा देवताद्यनुद्देशेन आत्मार्थं यत् पच्यते तत् “तिलत-ण्डुलसंपक्वः कृशरः सोऽभिधीयते” इति छा० प०उक्तः कृशरः, संयावः घृतक्षीरगुडगोधूमचूर्ण्णमयः पिष्ट-कभेदः अनुपाकृतानि मन्त्रैरसंस्कृतपशुमांसानि देवा-न्नानि देवार्थं कल्पितानि प्राक् होमात् नाद्यानि ।“वृथामांसञ्च नाश्नीयात् पितृदेवादिवर्जितम्” स्मृतिः “नतदश्नीयाद्यद्देवपितृमनुष्यार्थन्न कुर्य्यात्” शङ्खलि० “वृथासांसं भोक्तव्यं भोक्तव्यं श्राद्धकर्मणि अन्यथा भक्ष-यन् विप्रः प्राजापत्यं समाचरेत्” छाग० अस्याप-वादः “भक्षयन्नपि मांसानि शेषभीजी दुष्यति औषधार्थ-मशक्तौ वा नियोगात् यज्ञकारणात्” देवलः, “रोगी नियुक्तो-विधिना हुतं विप्रमतं तथा मांसमद्याच्चतुर्द्धैषा परिसंख्याप्रकीर्त्तिता” वृह० मनुरपि “क्रीत्वा स्वयं वाप्युत्पाद्य परो-पकृतमेव वा अर्चयित्वा पितॄन् देवान् खादन्मांसं दुष्यति”अन्यत्र दोषमाह एव “अतोऽन्यथा तु योऽश्नीयात्विधिं हित्वा पिशाचवत् यावन्ति पशुरोमाणि तावत्प्राप्नोति सान्वयम् प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानाञ्चकाम्यया यथाविघि नियुक्तन्तु प्राणानामेव चात्यये इति चमनुः ब्रह्मणकाम्यया तु सकृदेव भक्ष्यम् “मक्षयेत् प्रोक्षितंमांसं सकृद् ब्राह्मणकाम्यया दैवे नियुक्तं श्राद्धे वा नियमे तुविवर्गयेदिति” यमोक्तेः नियमः मांसभोजननिवृत्ति-संकल्पः व्रतभेदः “मांसं नाश्नीयात् तद्व्रतम्संवत्सरं वेति” छा० उप० इत्यादिकः अतएव विहितमांसविवर्जने एव मनुना फलाधिक्यं दर्शितम् “यो बन्धनबधक्लेशान् प्राणिनां चिकीर्षति सर्वस्य हितप्रेप्सुःसुखमत्यन्तमश्नुते यद्ध्यायति यत्कुरुते धृतिं वा यातियत्र तदवाप्नोत्ययत्नेन यो हिनस्ति किञ्चन” इतिवर्षे वर्षेऽश्चमेधेन यो यजेत शतं समाः मांसानि० चन खादेद्यस्तयोः पुण्यफलं समम्
फलमूलाशनैर्मेच्यैर्म्मुन्यन्नानाञ्च भोजनैः तत् फलमवाप्नोति यन्मांसपरिवर्जनात्” अतएव मनुना मांसभक्षणे दोषो नमद्ये मैथुने प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला”इत्यनिषिद्धमांसवर्ज्जनस्य महाफलतोक्ता मांसभक्षणेन दोषैत्यादिकं तु दैवादिकर्म्मादौ अनुज्ञातमांसादि-दोषाभावपरम् तु निन्दितमांसभोजनेऽपि दोषाभाव-परं तस्य स्वेनैव दुष्टत्वाभिधानात् तथा स्वोक्त-विहितमांसभक्षणे “सौत्रामण्यां सुरां पिबेदिति” श्रुत्युक्तेमद्यपाने, “न काञ्चन परिहरेत्तदव्रतमित्यादि” श्रुत्युक्तेभैथुने दोषः तेषामेव त्यागे महाफलत्वम् अतएव “कुर्य्यात् घृतपशुं सङ्गे कुर्य्यात् पिष्टपशुं तथे” त्यनेनसति सङ्गे (यज्ञादिफलकामनायाम्) पिष्टपशुनैव तं सम्पा-दयेदिति तेनैवोक्तम् अधिकं पिष्टपशुशब्दे वक्ष्यते रोगिणाभक्षणेऽपि विशेषः “ब्राह्मणानुज्ञया भक्ष्यमुक्तं मांसञ्चरोगिभिः मातापितृभ्यां संभुक्तं शेषं वा ब्रह्मचारिणःपुनः प्रशान्तरोगेण कर्त्तव्यमधिकं ब्रतम्” ब्रह्मपु० ।“अगम्यागमने चैव मद्यगोमांसभक्षणे शुद्ध्यै चान्द्रायणंकुर्य्यात् पराश० “गामश्वं कुञ्जरोष्ट्रौ सर्वान् पञ्चनखां-स्तथा क्रव्यादं कुक्कुटं ग्राम्यम् भुक्त्वा संवत्सरं व्रतम्” शङ्खः ।पञ्चनखाश्च शशादिभिन्नाः “शशकः शल्वकी गोधा खड्गीकूर्मश्च पञ्चमः भक्ष्यान् पञ्चनखेष्वाहुरिति मनूक्तेः ।“विड्वराहग्रामकुक्कुटनरगोमांसभक्षणेषु सर्वेष्वेव द्विजानांप्रायश्चित्तान्ते भूयः संस्कारं कुर्य्यात्” विष्णुः “हंसं मद्गूंच काकोलं काकं वा खञ्चरीटकम् मत्स्यादांश्च तथा मत्-स्यान् बलाकां शुकसारिके चक्रवाकं प्लवं कौलं मण्डूकंभुजगं तथा मासमेकं व्रतं कुर्य्यात् भूयश्च तन्न भक्षयेदितिशङ्खः मत्स्यादः पाठीनव्यतिरिक्तः “पाठीनरोहिता-वाद्यौ नियुक्तौ दैवपैत्रयोः” मनुना तस्य विधानात् “कल-विङ्गहंसमद्गुचक्रवाकरज्जुबालसारसदात्यूहशुकसारिका भास-चाषकाकवलाकाकोकिलखञ्जरीटाशने त्रिरात्रमुपवसेत्”विष्णुः “चाषांश्च रक्तपादांश्च सौनं वल्लूरमेव मत्स्यांस्तुकामतो जग्ध्वा सोपवासस्त्र्यहं वसेत्” मनुः सूना बध्य-स्थानं तत्र भवत् सौनम् वल्लूरं शुष्कमांसम् “क्रव्यादान्शकुनीन् सर्वान् टिट्टिभञ्च विवर्ज्जयेत् कलविङ्गं प्लवंहंसं चक्राङ्गं ग्रामकक्कुटम् सारसं रज्जुबालञ्च दात्यूहंशुकसारिके प्रतुदान् जलापादांश्च क्रौञ्चांश्च नखविष्किरान् निमज्जतश्च मत्स्यादान् सौनं वल्लूरमेव चवकञ्चैव वलाकाञ्च काकोलं खञ्जरीटकम् मत्स्याङ्कान् विड्-वराहांश्च मत्स्यानेव सर्वशः” इति मनुः मत्स्यभेदे दैवा-दाववादमाह मनुः “पाठीनरोहितावाद्यौ नियुक्तौ हव्य-कव्ययोः राजीवसिंहतुण्डांश्च सशल्कांश्चैव सर्वशः”“अभक्ष्यं भक्ष्येष्वजामहिषीक्षीरं विवर्जयेत् पञ्चनखमत्स्य-वराहमांसानि” चेति विष्णुः “मत्स्यकर्कटशम्बूक-शङ्खशुक्तिकपर्द्दकान् पीत्वा नवोदकञ्चैव पञ्चगव्येनशुध्यति” हारी० “कृमिकीटपिपीलिकाजलौकापतङ्गा-स्थिप्राशने गोमूत्रगोमयाहारस्त्रिरात्रेण प्रयतो-भवेत्” हारी० केशमक्षिकारुधिरप्राशने आममांसकृमि-भक्षणे इत्युपक्रम्य “त्रिरात्रोपवासं घृतप्राशनञ्च कुर्य्यात”शङ्खलि० “भक्ष्याणामप्याममांसरुधिरप्राशने तु पञ्च-गव्यम्” हारी० “नखकेशरुधिरप्राशने सद्यः स्नानं घृत-कुशहिरण्योदकप्राशनञ्च” बुधः “अजाविकमहिषमृगाणाम्मांसभक्षणे केशरुधिरप्राशने बुद्धिपूर्व्वे त्रिरात्रम्”बौधा० भक्ष्यमांसकस्यापि क्वचिदंशे निषिद्धता “पृष्ठमांसंगर्भशय्यां शुष्कमांसमथापि वा भूमेरन्तर्गतं कृत्वामृद्भिश्चागालितं यत् पक्वं मांसमृजीषन्तु प्रयत्नान्नच भक्षयेत् प्रमादभक्षितैरेभिर्वने वासं वसेदहःब्र०
पु०
ऋजीषं पिष्टपचनभाण्डं तत्र पक्वम् व्यक्ति-विशेषे सर्वमांसानामभक्ष्यता “न भक्ष्यं यतिना मांसंकदाचित्तु मुमूर्षुणा” ब्र०
पु०
स्त्रीणान्तु सर्वथामांसनिषधमाह भागवतम् “ये त्विह षै पुरुषाःपुरुषमेधेन यजन्ते याश्च स्त्रियो नृपशूत् खादन्ति तांश्चताश्च ते पशवः इह ये निहता यमसदने यातयन्तो रक्षो-गणाः सौनिका इव स्वधितिनावदायासृक् पिबन्ति” इति ।कार्त्तिकादौ तु सर्व्वथा मांसादिनिषेधः “न मत्स्यं भक्ष-येन्मांसंन कौर्मं नान्यदेव हि चण्डालो जायते राजन्!कार्त्तिके मांसभक्षणात्” आ० त० ना०
पु०
“कौमु-दन्तु विशेषेण शुक्लपक्षं नराधिप! वर्ज्जयेत् सर्वमांसानिधर्म्मस्तत्र विधीयते एकादश्यादिषु तथा तासु पञ्चसुरात्रिषु” इत्युपक्रम्य वर्ज्जितव्या तथा हिंसा मांसभक्षणमेव चब्रह्मपु० “निष्पाबान् राजमाषांश्च सुप्ते देवे जनार्द्दने योभक्षयति राजेन्द्र! चण्डालादधिकोहि सः कार्त्तिके तुविशेषेण राजमाषांश्च वर्ज्जयेत् निष्पावान् मुनिशार्द्दूल ।यावदाहूतनारकी कदम्बानि पटोलानि वृन्ताकसहितानिच त्यजन् कार्त्तिके मासे यावदाहूतनारकी ।एतानि भक्षयेद्यस्तु सुप्ते देवे जनार्द्दने शतजन्मार्जितंपुण्यं दह्यते नात्र संशयः” म० त० ब्रह्म
पु०
निष्पावः श्वेतशिम्बी कदम्बानि कदम्बफलानीति कलम्बीति वा म० त०रघु० तिथिविशेषेषु मांसादीनामभक्ष्यता “स्त्रीतैलमांस-संभोगी पर्व्वस्वेतेषु मानवः विन्मूत्रभोजनं नाम नरकं प्रति-पद्यते” इति वि०
पु०
“षष्ठ्यष्टभी पञ्चदशी उभे पक्षेचतुर्द्दशी अत्र सन्निहितं पापं तैले मांसे भगे क्षुरे”स्मृतिः “मत्तक्रुद्धातुराणाञ्च भुञ्जीत कदाचन ।केशकीटावपन्नञ्चपदा स्पृष्टञ्च कामतः भ्रूणघ्नावेक्षितंचैव संस्पृष्टञ्चाप्युदक्यया पतत्त्रिणावलीढञ्चशुना संस्पृष्ट-मेव गवा चान्नमुपाघ्रातं घुष्टान्नञ्च विशेषतः ।गणान्नं गणिकान्नञ्च विदुषा जुगुप्सितम् स्तेनगाय-नयोश्चैव तक्ष्णोवार्द्धुषिकस्य दीक्षितस्य कदर्य्यस्यबद्धस्य निगडस्य अभिशस्तस्य षण्डस्य पुंश्चल्यादाम्भिकस्य चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभो-जिनः उग्रान्नं सूतिकान्नञ्च पर्य्याचान्तमनिर्द्दशम् ।शुक्तं पर्य्युषितं चैव शूद्रोच्छिष्टं तथैव अनर्चितंवृथामांसमवीरायाश्च योषितः द्विषदन्नं नगर्य्यन्नम्पतितान्नमवक्षुतम् पिशुनानृतिनोश्चान्नं क्रतुविक्रयि-णस्तथा शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव कर्म्मा-रस्य निषादस्य रङ्गावतारकस्य सुवर्ण्णकर्त्तुर्वेणस्यशस्त्रविक्रयिणस्तथा श्ववतां शौण्डकिनाञ्च चेलनिर्णेजकस्यच रजकस्य नृशंसस्य यस्य चोपपतिर्गृहे मृष्यन्ति येचोपपतिं स्त्रीजितानाञ्च सर्वशः अनिर्द्दशञ्च प्रेता-न्नमतुष्टिकरमेव राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् आयुः सुवर्ण्णकारान्नं यशश्चर्म्मावकर्त्तिनः ।कारुकान्नं प्रजा हन्ति बलं निर्णेजकस्य गणान्नं गणि-कान्नं लोकेभ्यः परिकृन्तति पूयं चिकित्सकस्यान्नंपुंश्चल्यास्त्वन्नमिन्द्रियम् विष्ठा वार्द्धषिकस्यान्नं शस्त्रविक्र-यिणोमलम् भुक्त्वा चान्यतमस्यान्नममत्या क्षपणं त्र्यहम् ।मत्या भुक्त्वा चरेत् कृच्छंरेतोविण्मूत्रमेव नाद्यात् शू-द्रस्य पक्वान्नं विद्वानश्राद्धिनोद्विजः आददीताममेवास्मादवृत्तावेकरात्रिकम्” मनुः ‘केशकीटावपन्नं केशकीटैःसह पक्वम् घुष्टान्नं “केभोक्तारः” इत्युक्त्वा सत्रादौ यदन्नंदीयते तत् गणान्नं बहुभिर्मिलित्वा यद्भोज्यं क्रियते तत ।दीक्षितस्य दीक्षणीययागानन्तरमा यज्ञसमाप्तेः अन्नम-भक्ष्यम् बद्धस्य रज्वादिना निगडस्य अर्श० आ०अच् निगडवतः निगडबद्ध्वस्येत्यर्थः सूतिकान्नं सूतिका-भक्षणमुद्दिश्य यत् पक्वं तत्कुलजैरपि भक्ष्यम् पर्य्या-चान्तम् एकपङ्क्तिस्थेषु बहुषु भुञ्जानेषु यदि कश्चिदाचमनंकरोति तदा तत्पङ्क्त्युपविष्टानां तदन्नमभक्ष्यम् ।अनिर्द्दशं जननाशौचिनोऽन्नं तेनानिर्द्दशाहं प्रेतान्न-मित्यनेन पौनरुक्त्यम् “सूतके तु यदा विप्रो ब्रह्मचारीविशेषतः पिबेत् पानीयमज्ञानात् समश्नीयात्स्पृशेत वा पानीयपाने कुर्व्वीत पञ्चगव्यस्य भक्षणम्त्रिरात्रं भोजने प्रोक्तम्” शङ्खः एतच्चोभयाशौचपरम्श्रुक्तं यन्मधुरं कालवशादम्लतां गतमम्ल ञ्चात्यन्ताम्लताम् ।शुक्तेषुंदधि तज्जातञ्च भक्ष्यम् “दधि शुक्तेषु भोक्तव्यं सर्वञ्चदधिसम्भवमिति” मनूक्तेः तदपि गुडादिद्रव्यमिश्रणे-ऽभक्ष्यमेव “गुडादिद्रव्यसंयुक्तं वर्ज्ज्यं पर्य्युषितं दधि ।तथैव यावकादीनि मन्थादिचरितान्यपि” यमोक्तेः ।“सगुडं मरिचाक्तं तथा पर्य्युषितं दधि जीर्णतक्रमपेयञ्चनष्टस्वादञ्च केनचित् प्रमादभक्षितैरेभिर्वने पक्षव्रतं चरेत्”स्मृतेश्च “यंवगोधूमवर्ज्जं गव्यविकारं स्नेहाक्तं चक्रुषाभवंवर्जयित्वा पर्य्युषितं प्राश्योपवसेत् तथा दधिवर्जं सर्वशुक्तानि”विष्णुः “केवलानि शुक्तानि तथा पर्य्युषितानि ।ऋजीषपक्वं भुक्त्वा तु त्रिरात्रं तुव्रती भवेत् शङ्खः चुक्रुषाव्यञ्जनभेदः “अपूपाश्च करम्भाश्च धाना वटकशक्तवः ।शाकं मांसमपूपञ्च सूपं कृषरमेव यवागूं पायसञ्चैवयच्चान्यत् स्नेहसंयुतम् सर्वं पर्युषितं भक्षेत् शुक्तं तु परिवर्जये-दिति यमः “अविकारि भवेन्मेध्यमभक्ष्यं तद्विकारकृत्”पर्य्युषितं रात्र्यन्तरितम् स्नेहाक्तं चेद्भक्ष्यं यथाह मनुः ।यत्किञ्चित् स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम् तत्पर्य्युषित-मप्याद्यं हविः शेषञ्च यद्भवेदिति” “चिरसंस्थितमप्याद्यंसुस्नेहाक्तमपि द्विजैः यबगोधूमजं सर्वं पयसाञ्चैव विक्रि-येति” अनर्चितं निन्दयाधरीकृतम् अवीराया निःस-म्बन्धायाः पतिपुत्रहीनायाः सम्बन्धित्यास्तु पित्रामह्यादेर्नदोषः नगर्य्यन्नं नगरिणो नगराधिपस्यान्नम् “नगराधिपतेःशत्रोः पिशुनानृतिनोस्तयेति” ब्र०
पु०
ऐकवाक्यात् अवक्षुतंक्षवथुसहितम् “वृत्त्यन्वेषी नटानान्तु तु शैलूषकः स्मृत”इति आ०
पु०
उक्तः शैलूषः तुन्नवायकः सूचीकर्म्मकृत्, निषादः प्रतिलोमजवर्ण्णसङ्करभेदः रङ्गावतारकः नृत्यस्थानेगीतवाद्यादिना तदनुगुणतायां प्रसङ्गी वेणः वंशविकारपा-त्रादिकर्त्ता श्ववान् मृगयाद्यर्थं कुक्कुरपोषणकृत् ।शौण्डिकादयश्च तत्तद्धृत्तिभाजो द्विजाः अन्त्यजानां गुरु-प्रायश्चित्तश्रवणात् प्रा० वि० शूद्रान्न’ शूद्रगृहे भक्ष्यम् ।“शूद्रवेश्मनि विप्रेणक्षीरं वा यदि वा दधि निवृत्तेन नभोक्तव्यं शूद्रान्नं तदपि स्मृतम्” “निवृत्तेन शूद्रान्नान्नि-वृत्तेनेति” आ० त० रघु० “यथा यतस्ततो ह्यापः पुद्धिंयान्ति नदीं गताः शूद्राद्विप्रगृहेष्वन्नं प्रविष्टं तु सदा शुचि”अत्रिः तेन स्वगृहागतस्यैव शुद्धत्वं तद्गृहगतस्य शूद्रा-न्नत्वमिति भेदः “यः शूद्रेण समाहूतो भोजनं कुरुतेद्विजः सुरापीति विज्ञेयः सर्वधर्मभिषकृतः यःशूद्रेणाभ्यनुज्ञातः कुर्य्याद्वा भोजनं द्विजः सुरापीतिस विज्ञेयः सर्वधर्मबहिष्कृतः” वृह० ना० “शू-द्रान्नेन तु भुक्तेन उदरस्थेन यो मृतः वै खरत्व-मुष्ट्रत्वं शूद्रत्वं वाऽधिगच्छति “शूद्रान्नं ब्राह्मणोभुक्त्वातथा रङ्गावतारिणः चिकित्सकस्य क्रूरस्य तथा स्त्रीमृग-जीविनः चण्डालान्नं भूमिपान्नमजजीव्यश्वजीविनाम् ।शौण्डिकान्नं सूतिकान्नं भुक्त्वा मासव्रती भवेदिति, शङ्खः ।शूद्रस्याऽपि भोज्यविशेषस्य भक्ष्यतामाह सुमन्तुः गोरसञ्चैवशक्तूंश्च तैलं पिण्याकमेव अपूपान् भक्षयेच्छूद्रात् यच्चान्यत्पयसा कृतम् कन्दुपक्वं तैलपक्कं पायसं दधि शक्तवः एतान्य-शूद्रान्नभुजां भोज्यानि मनुरब्रवीदिति” हारीतः “रजकेचैवशैलूषे वेणुचर्म्मोपजीविनि एतेषां यस्तु भुञ्जीत द्विजश्चा-न्द्रायणं चरेत् आप० अन्त्यजान्नं यदा भुङ्क्ते शूद्रो मोहात्कदावन एकरात्रोषितोभूत्वा दानं दत्त्वा विशुध्यति” संवर्त्तः“अभिशस्तपतितपौनर्भवभ्रूंणहपुश्चल्यशुचिशस्त्रकारतैलिक-चाक्रिकध्वजिसुवर्णकारलेख्यकशण्डतुन्नवायकबन्धकगणिका-न्नानि भोज्यानि शौकरिकव्याधनिषादरजक वरुड-कैवर्त्तचर्मकारा अभोज्यान्ना अप्रतिग्राह्याश्च” सुम० ।“पतितानां गृहं गत्वा भुक्त्वा प्रतिगृह्य मासोपवासंकुर्व्वीत” वृह० “चाण्डालपतितान्नभोजनेषु ततः पुन-रुपनयनम्” वसि० “पतितद्रव्यमादाय भुङ्क्ते ब्राह्मणःक्वचित् कृत्वा तस्य समुत्सर्गं यतिकृच्छ्रं चरेद्द्विजः” उश० ।“चण्डालचाक्रिकलोहकारघाण्ठिकान्नभोजने त्रिरात्रसु-पवसेत्” हारोतः चाक्रिको वृषादिचक्रेण तैलनिष्पादनवृत्तिः ।घाण्ठिकः देवघण्टावादकः “ध्वजिबणिक्किरीटिवार्द्धुषि-कान्नभोजने पञ्चरात्रम्” हारीतः ध्वजी शौण्डिकवृत्तिःबणिक् शिल्पोपजीवी किरीटी बणिग्भेदः “भगवृत्ति-पुंश्चलीवेश्यान्नभोजने सप्तरात्रम् दुष्कृतिगरदतस्करान्न-भोजने दशरात्रम् प्रव्रजितगणोद्दिष्टान्नभोजने दशरात्रंताम्रकांस्यसीसककारव्याधिततक्षकान्नभोजने तप्तकृच्छ्रंब्राह्मणवृत्तिघ्नबधबन्धोपघातवृत्त्यन्नभोजने सङ्कीर्ण्णान्नभो-जने असस्कृतावज्ञासरोषविस्मयान्नभोजने च” हारी० ।भगवृत्तिर्मेथुनशुल्केन यस्य वृत्तिः गरदो विषदाताव्याधिजनकौषधदाता “इतरे ये त्वभोज्यान्नास्तेषा-मन्नं विगर्हितम् अजाविके माहिषिके कूटे वृषलीपतौएतेषां भोजनं कृत्वा द्वादशाहं पयःपिबेत्” मनुः अजावि-कोऽजाविभ्यां वृत्तिमान् माहिषिकः महिषेण वृत्तिमान् ।कूटः अन्यन्मनसि अन्यद्वचसीत्यादिरूपकपटव्यवहारी“बन्ध्या तु वृषलीज्ञेया वृषली मृतप्रजा अपरा वृष-ली ज्ञेया कुमारी या रजस्वला” उश० उक्ता तस्याःशूद्रायाश्च पतिः विष्णुः “गणगणिकास्तेनगायकान्नानिभुक्त्वा सप्तरात्र पयसा वर्त्तेत तक्ष्णश्चान्नं चर्म्मकर्त्तुश्च वार्द्धु-षिककदर्य्यस्य दीक्षितबद्धनिगडाभिशस्तानाञ्च पुंश्चलीदा-म्भिकचिकित्सकलुब्धकक्रूरोच्छिष्टभोजिनाञ्च अवीरास्त्री-सुवर्णकारसंसर्गपतितानाञ्च पिशुनानृतवादिनाञ्च धर्म्म-सोमविक्रयिणाञ्च शैलूषतुन्नवायकृतघ्नरजकानाञ्च कर्म्म-कारनिषादरङ्गावतारिवेणशस्त्रविक्रयिणाञ्च श्वजीवि-शौण्डिकतैलिकचेलनिर्ण्णेजकानाञ्च भ्रुणघ्नावेक्षितमुदक्यासंस्पृष्टं पतत्रिणावलीढं श्रुना संस्पृष्टं गवा घ्रातञ्चकामतः पदास्पृष्टमवज्ञातञ्च मत्तक्रुद्धातुराणाञ्च अनर्चितंवृथा मांसञ्च यत्र नाश्नन्ति देवाश्च पितरश्च यथा-विधि वृथापाकः परिज्ञेवः तस्य नाद्यात् कथञ्चन ।वृथापाकस्य भुञ्जानः प्रायश्चित्तं चरेत्” “नवं कृषरपूपादिपायसं मधुसर्पिषी चण्डालेन शुना वापि दृष्टं हविर-यज्ञियम् विडालादिभिरुच्छिष्टंदुष्टमन्नं विवर्जयेत् अन्यत्रहिरण्योदकस्पर्शादिति” शाता० हिरण्योदकस्पर्श-स्येवान्नस्य, तापनादेः घृतादीनां शुद्धिकरत्वमाह सएव“तापनं घृततैलानां प्लावनं गोरसस्य अन्त्यानां भुक्त-शेषस्तु भक्षितोयैर्द्विजातिभिः चान्द्रं कृच्छं तदर्द्धं वा”उशनाः “कापालिकान्नभोक्तॄणां तन्नारीगामिनां तथा ।ज्ञानात् कृच्छ्राब्दमुद्दिष्टम्” आप० “अन्त्यावसायिनामन्न-मश्नीयाद्यस्तु कामतः शिशुचान्द्रायणं कुर्य्यादिति”अङ्गि० “चण्डालपतितादीनामुच्छिष्टस्य भक्षणे ।द्विजः शुध्येत् पराकेण” अङ्गि० “अमेध्यपतितचाण्डालपुक्कशरजस्वल्यऽवधूतकुणिकुष्ठिकुनखिस्पृष्टानिभुक्त्वा कृच्छ्रमाचरेत्” शङ्खः अमेध्यं मद्यभाण्डविण्मूत्र-रेतन्यादि पुक्कशः क्षत्त्रियायां शूद्राज्जातः प्रतिलोमजःवर्ण्णसङ्करः कुणिः स्वभावतः पाणिविकलः “चाण्डाल-पतितामेध्यकुणपैः कुष्ठिना तथा उदक्यासूतिभिः स्पृष्टंभुक्त्वा मासं वने वसेदिति” ब्र०
पु०
“अस्थ्यादि-दूषितान्नञ्च भुञ्जानस्तु यदा भवेत् स्नात्वार्कमर्चयित्वा तुघृतं प्राश्य विशुध्यति” ब्र०
पु०
पतितादिस्पर्शे अकृत-स्नानावामन्नमात्रस्याभक्ष्यता “महापातकिसंसर्गे स्नान-मेव विधीयते संस्पृष्टस्तु यदा भुङ्क्ते तप्तकृच्छ्रं समाचरेत्स्नानार्हको यदा स्नानमकृत्वाश्नाति वै द्विजः अहोरात्रोषितः स्नातः पञ्चगव्येन शुध्यति” पैठ० “केशकीटा-वपन्नञ्च स्त्रीभिः स्पृष्टं तथैव सोदक्याशूद्रसंस्पृष्टंपञ्चगव्येन शुध्यति” जावा० स्त्री भिन्नजातिस्त्री केश-कीटाद्युपहतस्य प्रोक्षणादिकं कृत्वा भक्ष्यमेव “अव-क्षुतं केशपतङ्गकीटैरुदक्यया वा पतितैश्च दृष्टम् अलात-मृद्भस्महिरण्यतीयैः संस्पृष्टमन्नं मनुराह भोज्यम्”यमः चण्डालपतितामेध्यैः कुणपैः कुष्टिना तथा ।ब्रह्मध्नसूतिकीदक्याकौलेयककुटुस्वभिः दृष्टं वा केश-कीटाक्तं भृद्भस्मकनकाम्बुभिः शुद्धमद्यात् सहृल्लेखं प्रभूतंव्युष्टतेव ब्रह्मपु० कौलेयकः कुक्कुरः कुटुम्बी कुक्कुटादिप्राणिभेदः तस्यबहुकुटुम्बवत्त्वात् व्युष्टं पर्य्युषितम् एतच्चचुरतरमभ्युक्ष्य भक्ष्यम् अत्यन्तोपहतस्य तु त्यज्यतैव” प्रा० वि०“विशुद्धमपि चाहारं मक्षीकाकृमिजन्तुभिः केशलोम-नखैर्वापि दूषितं परिवर्ज्जयेत्” देव० तन्मात्रमुद्धृतंशुद्ध्येत् कठिनन्तु पयोदधि “अविलीनं तथा चैवविलीनं श्रपणेन तु” शाता० “नाश्रोत्रियतते यज्ञे ग्राम-याजिहुते तथा स्त्रिया क्लीवेन हुते भुञ्जीत व्राह्मणःक्कचित् अश्लीलमेतत् साधूनां यत्र जुह्वत्यमी हविः प्र-तीपमेतद्देवानां तस्मात्तत् परिवर्ज्जयेदिति” मनुः “अश्रो-योऽनधीतवेदः तेन हुतयज्ञे अन्नमभक्ष्यम् ग्रामयाजीग्रामजनानां श्राद्धपूजाकारयिता ऋत्विग्भावेन होमस्वस्त्य-यनकर्ता होता यत्र यज्ञे तदन्नमभक्ष्यम् ।श्राद्धविशेषान्नस्याभक्ष्यता “चान्द्रायणं नवश्राद्धे पराको-मासिके मतः पक्षश्राद्धेऽतिकृच्छ्रः स्यात् षाण्मासेकृच्छ्रएव आब्दिके कृच्छ्रपादः स्यादेकाहः पुनराब्दिकेअङ्गिः० पक्षश्राद्धं त्रैपक्षिक श्राद्धम् नवश्राद्धमेकादशाहा-दिश्राद्धम् हस्तादिदत्त द्रव्यविशेषस्याभक्ष्यता “हस्तदत्ताश्चये स्नेहा लवणं व्यञ्जनानि दातारं नोपतिष्ठेत्तु भोक्ताभुङ्क्ते किल्विषम् तस्माच्चान्तरितं देयं पर्ण्णेनाथ तृणेनवा प्रदद्यान्न तु हस्तेन नायसेन कदाचन आयसेनतु पात्रेण यंदन्नन्तु प्रदीयते भोक्ता विष्ठासमं-भुङ्क्ते दाता नरकं ब्रजेत्” भवि०
पु०
“माक्षिकंफाणितं शाकं गोरसं लवणं घृतम् हस्तदत्तानि भुक्त्वाच भोक्ता सान्तपनञ्चरेत्” यमः “एकेन पाणिनादत्तं शूद्रादत्तं भक्षयेत् घृतं तैलञ्च लवणं पानीयंपायसं तथा” स्मृतिः “वाग्दष्टं भावदुष्टञ्च भाजनेभावदूषिते भुक्त्वान्नं ब्राह्मणः पश्चात् त्रिरात्रं तु व्रतीभवेत्” शङ्खः शूद्राणां भाजने भुक्त्वा भुक्त्वा वा भिन्न-भाजने अहोरात्रोषितोभूत्वा पञ्चगव्येन शुध्यति”सब० भिन्नभाजनं कांस्यपरं “भिन्नकांस्ये तु योऽ-श्रीयादन्नं स्नात्वा जपन् द्विजः गायत्र्यष्टसहस्रं तुएकभक्तस्ततः शुचिः” बौधा० कांस्यत्वेन विशेषणात् ।आपोशनाकरणेभोजनस्य निषेधात् तदकृतवता द्रव्यमात्रस्या-भक्ष्यता “आपोशानमकृत्वा तु भुङ्क्तेयोऽनापदि द्विजः ।भुञ्जानश्चयदा व्रूयात् गायत्र्यष्टशतं जपेत्” अनाचान्तस्यद्रव्यमात्रस्याभक्ष्यता “अनाचान्तः पिबेद्यस्तु भक्षयेद्वापिकिञ्चन गायत्र्यष्टसहस्रं तु जप्यं कृत्वा विशुध्यति ।आचामेच्चर्व्वणे नित्यं मुक्त्वा ताम्बूलचर्वणम् दन्तलग्नेफल-मूले भुक्तस्नेहे तथैव ताम्बूले चेक्षुदण्डे नोच्छिष्टो-भवति द्विजः” जावा० “कषायकटुताम्बूले भुक्तस्नेहानु-लेपने मधुपर्के सोमे नोच्छिष्टं मनुरब्रवीत्”लघुबौ० अनाचान्तः कषायकटुताम्बूलेक्षुव्यतिरिक्तद्रव्यंसकृद्भक्षयित्वा दुग्धमधुनारिकेलजलादिकञ्च सकृत् पीत्वाअष्टोत्तरसहस्रावृत्तां गायत्रीं जपेत् प्रा० वि० यज्ञो-पवीतरहितानामन्नमात्रस्याभक्ष्यता “विना यज्ञोपवीतेनभुङ्क्ते तु ब्राह्मणो यदि स्नानं कृत्वा जपं कृत्वा उप-वासेन शुध्यति” लघुहा० अमेध्यदूषितफलानामभक्ष्यता ।मृद्वारिकुसुमादींश्च फलकन्देक्षुमूलकान् विण्मूत्रदूषितान्प्राश्य कृच्छ्र तु पादतश्चरेत् सन्निकृष्टेऽर्द्धमेव स्यात्” संव० ।मृदादेरभक्ष्यता “अङ्गुल्या दन्तकाष्ठञ्च प्रत्यक्षलवणंतथा मृत्तिकाभक्षणञ्चैव तुल्यं गोमांसभक्षणैः भवि०
पु०
।अत्रापवादः सैन्धबं लवणञ्चैव यच्च सामुद्रिकं भवेत्पवित्रे परमे ह्येते प्रत्यक्षे अपि नित्यशः” वायुपु० ।“भुक्त्वा तु क्षारलवणं त्रिरात्रं तु वने वसेत्” यमः ।“मृल्लोष्ट्रखादने अहोरात्रमभोजनाच्छुद्धिः श्रा० त० रघु० ।“नैकोमिष्टान्नमश्नीयात् वञ्चयित्वा गृही सुतान् ।दारान् भृत्यातिथींश्चैव तथासम्बन्धिबान्धवान् इत्युपक्रम्य“लालापे नरके घोरे दुर्गन्धेप्रास्यते नरः” यमः ।“पयोऽनुद्धृतसारञ्च भक्षयेद्दधि नो निशि दिवसे नवनीत-ञ्चेति” “सर्वं तिलमयं नाद्यात् सायं शर्म्माभिलाषिभिः”इति “नाश्नीयात् सन्ध्ययोर्द्वयोः” इति का० ख० ।“नातिसौहित्यमाचरेत् नातिप्रगे नातिसायम् नं निशीथेनचोषसि” मनुः दध्युद्धृतसारञ्च भक्षयेद्दधि नो निशि ।नाद्यादातृप्ति रात्रिषु” काशी० ख० “श्राद्धं कृत्वा परश्राद्धेयोऽश्नीयात् ज्ञानवर्ज्जितः दातुः श्राद्धफलं नास्ति भोक्ताकिल्विषभुग् भवेत्” यत् वेष्टितशिराभुङ्क्ते यत् भुङ्क्ते दक्षि-णामुखः सोपानात्कश्च यद्भुङ्क्ते तद्वै रक्षांसि भुञ्जते, इतिका० ख० “यो गृहीत्वा विवहाग्निं गृहस्थ इव मन्यते ।अन्नं तस्य भोक्तव्यं वृथापाको हि स्मृतः” का० ख० ।“पक्षे वा यदि मासे यस्य गेहेऽत्ति द्विजः भुक्त्वा दुरात्मन-स्तस्य चरेच्चान्द्रायणं व्रतम्” का० ख० “अग्राह्यं शिव-निर्माल्यं पत्रं पुष्पं फलं जलम्” ति० त०
पु०
“यातुधानाःपिशाचाश्च राक्षसाः क्रूररूपिणः हरन्ति रसमन्नस्यमण्डलेन विवर्ज्जितम् का० ख० नोत्सङ्गे भाजनं कृत्वा नोपाणौ नैव कर्पटे नासने शष्यायां भुञ्जीत मला-र्दितः” का० ख० “नारिकेलोदकं कांस्येताम्रपात्रे गुड-स्तथा सुरातुल्यं भवेदेतत् ताम्रे गव्यं घृतं विनेतिआ० त० पुरा० “वर्जनीयं सदा माघे मूलकं मदिरासममिति” ब्र०
पु०
सदा विप्रैरिति विधानपा० पाठः ।“वढप्लक्षोदुम्बरनीपदधित्थमातुलङ्गानि भक्षयेत्”हारी० दधित्थः कपित्थः कालान्तरेऽपि द्रव्यान्तरनिषेधः “आमिषं चुक्रशाकञ्च योभुङ्क्ते रवेर्द्दिने सप्तजन्मभवेत् कष्ठी दरिद्रश्चोपजायते स्त्रीतैलमांससंभोगीपर्वस्वेतेषु वै पुमान् विण्मूत्रभोजनं नाम नरकं प्रति-पद्यते” वि०
पु०
अथ तिथिविशेषे द्रव्यविशेषाभक्ष्यता-माह स्मृतौ “कुष्माण्डे चार्थहानिः स्यात् वृहत्यां नस्मरेद्धरिम् बहुशत्रुः पटोले स्यात् धनहानिस्तु मूलके ।कलङ्की जायते विल्वे तिर्य्यकग्योनिश्च निम्बके तालेशरीरनाशःस्यान्नारिकेले मूर्खता तुम्बी गोमांसतुल्यास्यात् कलम्बी गोबधात्मिका शिम्बी पापकरी प्रोक्तापूतिका ब्रह्मघातिका वार्त्ताकौ सुतहानिः स्याच्चिररोगीच माषके महापापकरं मांसं प्रतिपदादिषु वर्जयेत्” षट्त्रि० तत्र सप्तम्यामेव तालनिषेधादन्यत्र भक्षणं प्राप्तम् ।अतः ‘तालं श्वेताञ्च वार्त्ताकीं खादेद्वैष्णवो नरः’ इत्य-नेन तालमपि श्वेतं निषिद्धं साहचर्य्येण श्वेतानुष्ठङ्गात् ।“अलावूं वर्त्तुलाकारां वार्त्ताकीं कुन्दसन्निभाम्” ति० त०पु० यदपि ‘कुसुम्भंनालिकाशाकं वृन्ताकं पूतिकान्तथा ।भक्षयत् पतितस्तु स्यादपि येदान्तगोद्विजः इत्युशनसासामान्यतोऽभिहितम् तदपि श्वेतवृन्ताकपरम् तत्रनालिकाश्वेतकलम्बी पूतिका द्वादश्यामधिकदोल्षायशूद्रविषयिकावा इति ति० त० रघु० ।कुष्माण्डं वृहतीफलाषु लवणं वर्ज्यं तिलाम्लं तथा५ तैलं चामलकं दिवं प्रवसता शीर्षं कपालान्त्रकम्१० ११ निष्पावाश्च १२ मसूरिकाफलमथो १३ वृन्ताक संज्ञं१४ मधु द्यूतं १५ स्त्रीगमनं क्रमात् प्रतिपदादिष्वेवमा-षोडश नि० सि० मु० दीपि० शीर्षं नारिकेलम् कपालंअलाबूः अन्त्रकं पटोलम् “१ कुष्माण्डं वृहती ३क्षारं मूलकं पनसं फलम् धात्री शिरः९ कपालान्त्रं १० ११ नख १२ चर्म १३ तिलानि च१४ क्षुरकर्म्माङ्गनासेवां १५ प्रतिपदादिषु वर्ज्जयेत् नि०सि० भूपालः नखं शिम्बी चर्म मसूरिका “उच्छि-ष्टस्यान्नमात्रस्याभक्ष्यता “उच्छिष्टमगुरोरभोज्यं स्वो-च्छिष्टमुच्छिष्टाहतञ्च” शाता० गुरुः पित्रादिः “पितु-र्ज्येष्ठस्य भ्रातुरुच्छिष्टं भोज्यम्’, आप० मातापितृभ्यांसंभुक्तं शेषं वा ब्रह्मचारिणः” ब्र०
पु०
स्वमुच्छिष्टन्तुयो भुङ्क्ते यो भुङ्क्तेत्यक्तभाजने एवं वैवस्वतः प्राह भुक्त्वाचान्द्रायणं चरेत्” चतुरृषिमतम् “नाश्नीयात्भार्य्यया सार्द्धं नाश्नीयादुत्कटासने” मनुना स्त्रिया सहभोजननिषेधेऽपि अध्वनि ब्राह्मण्या स्त्रिया सह भोक्तुं-शक्यते “ब्राह्मण्या हितया सार्द्धं क्वचिद्भुञ्जीत चाध्वनि ।अधोवर्णस्त्रिया सार्द्धं भुक्त्वा चान्द्रायणं चरेत्” ब्र०
पु०
।एतद्विषय एव “ब्राह्मण्या वा सहाश्नोयादुच्छिष्टं कयञ्चन ।न तत्र दोषं मन्यन्ते” अङ्गिराः विडालाद्युच्छिष्टस्याभ-क्ष्यता “विडालकाकाद्युच्छिष्टं जग्ध्वा श्वन लस्य ।केशकीटापन्नञ्च पिबेत् ब्रह्मसुबर्च्चलाम्” मनुः “दूषितंकेशकीटैश्च मार्ज्जारैर्मूषिकैस्तथा मक्षिकामशकश्चैव त्रिरात्रेविशुध्यति श्वकाकगोभिरुच्छिष्टभक्षणेतु दिनत्रयम्” मनुःअत्रापवादः “देवद्रोण्यां विवाहेषु यज्ञेषु प्रकृतेषु चकाकैः श्वभिश्च संस्पृष्टमन्नं तन्न विवर्ज्जयेत् तन्मात्रमन्न-मद्धत्य शेषं संस्कारमर्हति” यमः संस्कारश्च “घनानांप्रोक्षणाच्छुद्धिः द्रवाणामपि तापनात् संस्पर्शात्तु भवे-च्छुद्धिरपां प्राहुर्घृतस्य छागस्य मुखसंस्पृष्टं शुचि चैव हितद्भवेत्” यमः “पक्षिश्वापदजग्धस्य रसस्यान्नस्य भूयसः ।संस्काररहितस्यापि भोजने पादकृच्छ्रकम्” विष्णुः कुत्-सितशूद्रादिपङ्क्तिभोजननिषेधात्तत्रान्नमात्रस्याभक्ष्यता “यस्तुपङ्क्तिषु भुञ्जीत कुत्सितानां विशेषतः अहोरात्रोषितः स्नात्वापञ्चगव्येन शुध्यति” अङ्गि० “अपाङ्क्तेयब्राह्मणोपवेशने-न कुत्सितासु जलादिना पङ्क्तिभेदनमन्तरेणेत्याचारःप्रा० वि० “ब्राह्मणः क्षत्रियपङ्क्त्यामुपविश्यासंस्पृशन् यदाभुङ्क्तेतदा नक्तमाचरेत् वैश्यपङ्क्त्यामेकरात्रं शूद्रपङ्क्त्यां त्र्यहमाचरेत्” विष्णुः अनिन्दितपङ्क्तिष्वपि सहभोजने एकस्यो-त्थाने तदन्नस्याभक्ष्यता “एकपङ्क्त्युपविष्टानां बिप्राणां सह-भोजने यद्येकोऽपि त्यजेत् पात्र शेषमन्नं भोजयेत् ।मोहात् भुङ्क्ते तु यः पङ्क्त्यामुच्छिष्टं सहभोजने प्राय-श्चित्तंचरेद्विप्रः कृच्छं सान्तपनं तदा” शङ्खः कालविशेषेद्रव्यमात्रस्य अभक्ष्यता “सूर्य्यग्रहे तु नाश्नीयात् पूर्व्वंयामचतुष्टयम् चन्द्रग्रहे तु यामांस्त्रीन् बालबृद्धातुरैर्विना”वृद्ध० गौ० “ग्रहणं तु भवेदिन्दोः प्रथमादधि यामतः भुञ्जी-तावर्त्तनात् पूर्व्वं प्रथमे प्रथमादधः” मा०
पु०
अधि ऊर्द्धम् ।“ग्रस्तोदये सति विधोर्नाहर्भोजनमाचरेत्” वशि० “अमु-क्तयोरस्तगयोरद्यात् दृष्ट्वा परेऽहनि” व्यासः “अहोरात्रं नभोक्तव्यं चन्द्रसूर्य्यग्रहो यदा मुक्तिं दृष्ट्वा तु भोक्तव्यं स्नानंकृत्वा ततःपरम् विष्णुघ०
पु०
‘सन्ध्याकाले यदा राहुर्ग्रसतेशशिभास्करौ तदहर्नेव भुञ्जीत रात्रावपि कदाचन”गर्गः सायं सन्ध्यायां सूर्य्ये ग्रस्तास्ते, पूर्व्वेऽह्नि रात्रौच भोक्तव्य, प्रातः सन्ध्यायां चन्द्रे पस्तास्ते पूर्व्वरात्रा-वपरेऽह्नि भोक्तव्यमित्यर्थः नि० सि० बालवृद्धा-तुरैर्विनेत्युक्तेस्तेषा विशेषः “सायाह्ने ग्रहणं चेत्स्यादपराह्णे भोजनम् अपराह्णे, मध्याह्ने, मध्याह्ने तु सङ्गवे भुञ्जीत संगवे चेत् स्यान्नपूर्व्वं भोजन-क्रियेति” मा०
पु०
उक्तः’ एतच्च बालादिविषयमिति नि०सि० “सर्वेषामेव वर्ण्णानां सूतकं राहुदर्शने स्नात्वा कर्माणिकर्वीत शृतमन्नं विबर्ज्जयेत्” हेमा० षट्त्रि० “नवश्राद्धेषुयच्छिष्टं ग्रहपर्य्युषितञ्चयत् सर्व्वं तद्दुष्टतामेति” स्मृतेःग्रासकाले पक्वान्नादेरभक्षपता अत्रापवादः “आरनालंपयस्तक्रं दघि स्नेहाज्यपाचितम् मणिकस्थोदकं चैव दुष्येद्राहुसूतके” मेधा० “अन्नं पक्वमिह त्याज्यं स्नानं सवसनंग्रहे वारितक्रारनालादि तिलदर्भैर्न दुष्यति” स्मृतिः१ पुंसवनाद्यन्नस्याभक्ष्यता “याजकान्नं नवश्राद्धं संग्रहेचैव भोजनम् स्त्रीणां प्रथमगर्भे भुक्त्वा चान्द्रायणं चरेत् ।ब्रह्मौदने सोमे सीमन्तोन्नयने तथा जातश्राद्धेनवश्राद्धे भुक्त्वा चान्द्रायणं चरेत्” आप० संग्रहे स्त्रीणा-मेव व्यभिचारादिदीषार्थप्रायश्चित्तेन संग्रहे! ब्रह्मौदनेआपोवसयज्ञाङ्गकर्म्मविशेषे प्रा० वि० “जन्मप्रभृति संस्कारेबालस्यान्नस्य भोजने असंपिण्डैर्न भोक्तव्यं शमशानान्तेविशेषतः” अङ्गि० “निर्वृत्ते चूडहोमे प्राङ्नामंकर-णात् तथा चरेत् सान्तपनं भुक्त्वा जातकर्म्मणि चैव हि”व्यासः भोजनकाले मूत्राद्युत्सर्गेऽन्नमात्रस्याभक्ष्यता ।“मूत्रोच्चारसमुत्सर्गे मोहात् भुङ्क्तेऽथ वा पिबेत् त्रिरात्रंकुर्व्वीत” शाता० भोजनकाले सूतकाद्यशौचे भक्ष्यमा-णान्नस्याभक्ष्यता “यदा भोजनकाले तु अशुचिर्भवति द्विजः ।भूमौ निःक्षिप्य तं ग्रासं स्नात्वा विप्रोविशुध्यति भक्षयित्वातु तं ग्रासमहोरात्रेण शुध्यति अशित्वा सर्व्वमेवान्नंत्रिरात्रेण विशुध्यति” शाता० “अशुचिः सूतकादिनेति”प्रा० वि० तैलाभ्यङ्गादिना स्नानार्हस्याकृतस्नानस्यान्न-मात्रस्याभक्ष्यता “समुत्पन्ने द्विजः स्नाने भुञ्जीताथ पिबे-त्तथा गायत्त्र्यष्टसस्रं तु जपेत् स्नात्वा समाहितः” संब० ।स्नाने तैलाभ्यङ्गक्षौरादिनिमित्ते स्नाने प्राप्ते प्रा० बि० ।नीलीवस्त्रपारिधाने द्रव्यमात्रस्याप्यभक्ष्यता “नीलीवस्त्रंपरिघाय भुक्त्वा स्नानार्हकस्तथा त्रिरात्रं तु व्रतं कुर्य्यात्”शङ्खः “लोहितान् व्रश्चनांस्तथा अनुपाकृतमांसानि विड्-जानि कवकानि वृथाकृषरसंयावपायसापूपशस्कुलीरिति”या० विड्जानि अमेध्योद्भवानि अमेध्य देशोद्भवानान्तुन दुष्टता “अमेध्येषु तु ये वृक्षा उप्ताः पुष्पफलीपगाःतेषान्नैव प्रदुष्यन्ति पत्रपुष्पफलानि चेति” बौधा० उक्तेः ।अतिथ्यादिष्वभुक्तवत्सु गृहस्थस्यान्नमात्रस्याभक्ष्यता “देव-तातिभूतेषु भृत्येष्वभ्यागतेषु अभुक्तवत्सु येऽश्नन्ति तथापित्रग्निपक्षिषु दुष्टान्नपूयनिर्यासभुजः सूचीमुखास्तुते जायन्ते गिरिवर्ष्माणः” इति मार्क०
पु०
“असंतर्प्य पितॄन्देवान्नाद्यादन्नं नवं क्कचित् पक्कान्नं चापि नो मांसमितिका० ख० भक्ष्येष्वपि देवायानिवेदितमभक्ष्यमेव “अनिवेद्यन भुञ्जीत मत्स्यमांसादिकं यत् अन्नं विष्ठापयोमूत्रं यद्विष्णोरनिवेदितम्” आ० त०
पु०
“तैर्द-त्तानप्रदायेभ्यो यो भुङ्क्ते स्तेन एव सः” गीताब्रह्मचारिणोऽभक्ष्याणि ‘मासिकान्नन्तु योऽश्नीयादसमा-वर्त्तकोद्विजः त्रीण्यहान्युपवसेद् मनुः “मृतान्नंमधुमांसञ्च नैवाश्नीत व्रती क्कचित् त्रिरात्रोपोषितः सम्य-ग्रात्रिमेकां जले वसेत्” देवलः “सूतिकान्नं नवश्राद्धं मासि-कान्नं तथैव ब्रह्मचारी योऽश्नीयात् मधुमांसं कथञ्चनप्राजापत्यं तु कृत्वादौ मौञ्जीहोमेन शुध्यति” संव० मांसं चशिष्टभक्ष्यमांसपरम् “ब्रह्मचारी चेन्मधुमांममश्नीयात् शिष्ट-भोजनीयं, कृच्छ्रं द्वादशरात्रञ्चरित्वा व्रतशेषं समापयेत्”वशि० उक्तेः अस्यापवादः “स चेत् व्यघीयत कामं गुरो-रुच्छिष्टं भैषर्ज्याथं सर्वं प्राश्नीयात् येनेच्छत्तेन चिकित्सेत्स यदा अगदः स्यादादित्यमुपतिष्ठेत्” बौधा० अस्य पात्र-विशेषे द्रव्यमात्रस्याभक्ष्यता “आमिषस्य तु यो भाण्डेपक्वमश्नीत सुव्रतः (ब्रह्मचारी) कुशमूलविपक्केन त्र्यहंक्षीरेण वर्त्तयेत्” लघुहारीतः ।सर्वापर्वापवादः “जातमात्रः शिशुस्तावद्यावदष्टौ समाः”स्मृताः भक्ष्याभक्ष्येषुनोदुष्येद्यावन्नैवोपनीयते” का० ख०एवमन्यान्यपि स्मृतौ निषिद्धानिद्रष्टव्यानि वैद्यकोक्तदोषा-दपि कानिचिदभक्ष्याणि तानि चापथ्यशब्दे २२६ पृष्ठेप्राय-शोदर्शितानि विशेषतः कानिचित् प्रदर्श्यन्ते “वर्जयेत्पयसा स्विन्नं मत्स्यमांसमनूपकम् बल्लीफलम-कुष्माण्डमब्जैर्ज्जब्धूफलाद्वते मांसं मूलकसंसिद्धं घृतेनमधुमांसके मत्स्यानि क्षुरिकारेण क्षौद्रमुष्णेन वारिणापुनरुष्णीकृतञ्चान्नं घृतं कांस्ये दशाहिकम् दध्ना तक्रेणपयसा तालस्यापि फलेन विरोधान्नैव भुञ्जीत मति-मान् कदलीफलम् विरुद्धाशनजान् रोगाम् प्रतिहन्तिविरेचनम् वमनं शयनं वारि पूर्व्वं वा हितभोजनम्शाम्येताल्पतया वापि दीप्ताग्नेस्तरुणस्य स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत् अदृष्टद्वारदोषास्तुजायन्ते पापिनामिह” आह्निकतत्त्वे वैद्यकम्
Stchoupak
French
अ-भक्ष्य-
a. v. qu'on ne doit pas manger.