| YouTube Channel

अब्राह्मणः (abrAhmaNaH)

 
E Bharati Sampat
Sanskrit
(पुं) ब्राह्मणः। अप्राशस्त्ये नञ् १.नीचब्राह्मणः, पतितः ब्राह्मणः। सः षट्‌विधः। ‘अब्राह्मणास्तु षट् प्रोक्ता ऋषिणा तत्ववादिना आद्यो राजभृतस्तेषां द्वितीयः क्रयविक्रयी तृतीयो बहुयाज्यः स्याच्चतुर्थो ग्रामयाजकः पञ्चमस्तु वृतस्तेषां ग्रामस्य नगरस्य अनागतां तु यः पूर्वां सादित्यां चैव पश्चिमाम् नोपासीत द्विजः सन्ध्यां षष्ठोऽब्राह्मणः स्मृतः॥’ (वि) २.ब्राह्मणरहितः। ३.ब्राह्मणभिन्नः। ४.ब्राह्मणसदृशः क्षत्रियादिः।