| YouTube Channel

अब्जः (abjaH)

 
E Bharati Sampat
Sanskrit
(पुं) अप्सु जायते अप्+जनी(प्रादुर्भावे)+डः। ‘सप्तम्यां जनेर्डः’ ३.२.९७। १.चन्द्रः। ‘अब्जेन त्वन्मुखं तुल्यम्’ कुव०२५.६४। २.धन्वन्तरिः। ३.निचुलवृक्षः। (पुंन) ४.शङ्खः। (न) ५.लवणम् ६.कमलम् ‘स्थलेऽब्जमवरोपितम्’ कुव०१८.६७। ‘लवणाम्बुजयोरब्जं क्लीबे शङ्खे तु पुंसि वा पुंस्येव निचुले शीतरश्मौ धन्वन्तरावपि’ नानार्थर०। ७.शतकोटिः, १, ००, ००, ००, ००० दशार्बुदसंख्या ‘अर्बुदमब्जं खर्वनिखर्वमहापद्मशङ्कवस्तस्मात्’ ८.कर्णिकारपादपः। ९.कर्पूरः। (वि) १०.जलजातः। ‘अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च’ मनुः। (स्त्री) अब्जा ११.लक्ष्मीः।
Wordnet
Sanskrit
Synonyms:
सोमः, चन्द्रः, शशाङ्कः, इन्दुः, मयङ्कः, कलानिधिः, कलानाथः, कलाधरः, हिमांशुः, चन्द्रमाः, कुमुदबान्धवः, विधुः, सुधांशुः, शुभ्रांशुः, ओषधीशः, निशापतिः, अब्जः, जैवातृकः, सोमः, ग्लौः, मृगाङ्कः, द्विजराजः, शशधरः, नक्षत्रेशः, क्षपाकरः, दोषाकरः, निशीथिनीनाथः, शर्वरीशः, एणाङ्कः, शीतरश्मिः, समुद्रनवनीतः, सारसः, श्वेतवाहनः, नक्षत्रनामिः, उडुपः, सुधासूतिः, तिथिप्रणीः, अमतिः, चन्दिरः, चित्राटीरः, पक्षधरः, रोहिणीशः, अत्रिनेत्रजः, पक्षजः, सिन्धुजन्मा, दशाश्वः, माः, तारापीडः, निशामणिः, मृगलाञ्छनः, दर्शविपत्, छायामृगधरः, ग्रहनेमिः, दाक्षायणीपति, लक्ष्मीसहजः, सुधाकरः, सुधाधारः, शीतभानुः, तमोहरः, तुशारकिरणः, परिः, हिमद्युतिः, द्विजपतिः, विश्वप्सा, अमृतदीधितिः, हरिणाङ्कः, रोहिणीपतिः, सिन्धुनन्दनः, तमोनुत्, एणतिलकः, कुमुदेशः, क्षीरोदनन्दनः, कान्तः, कलावान्, यामिनीजतिः, सिज्रः, मृगपिप्लुः, सुधानिधिः, तुङ्गी, पक्षजन्मा, अब्धीनवनीतकः, पीयूषमहाः, शीतमरीचिः, शीतलः, त्रिनेत्रचूडामणिः, अत्रिनेत्रभूः, सुधाङ्गः, परिज्ञाः, सुधाङ्गः, वलक्षगुः, तुङ्गीपतिः, यज्वनाम्पतिः, पर्व्वधिः, क्लेदुः, जयन्तः, तपसः, खचमसः, विकसः, दशवाजी, श्वेतवाजी, अमृतसूः, कौमुदीपतिः, कुमुदिनीपतिः, भूपतिः, दक्षजापतिः, ओषधीपतिः, कलाभृत्, शशभृत्, एणभृत्, छायाभृत्, अत्रिदृग्जः, निशारत्नम्, निशाकरः, अमृतः, श्वेतद्युतिः
noun
देवताविशेषः
"पतितं सोममालोक्य ब्रह्मा लोकपितामहः[श.क]"
Synonyms:
अब्जः, निचुलः, इज्जलः, हिज्जः, निचूलः, पिचुलः, रक्तमञ्जरः, सेव्यः
noun
वृक्षविशेषः।
"अत्र बहवः अब्जाः सन्ति।"
Synonyms:
चन्द्रः, कलानाथः, कलाधरः, हिमांशुः, चन्द्रमाः, कुमुदबान्धवः, विधुः, सुधांशुः, शुभ्रांशुः, ओषधीशः, निशापतिः, अब्जः, जैवातृकः, ग्लौः, मृगाङ्कः, द्विजराजः, शशधरः, नक्षत्रेशः, क्षपाकरः, दोषाकरः, निशीथिनीनाथः, शर्वरीशः, एणाङ्कः, शीतरश्मिः, समुद्रनवनीतः, सारसः, श्वेतवाहनः, नक्षत्रनामिः, उडुपः, सुधासूतिः, तिथिप्रणीः, अमतिः, चन्दिरः, चित्राटीरः, पक्षधरः, रोहिणीशः, अत्रिनेत्रजः, पक्षजः, सिन्धुजन्मा, दशाश्वः, माः, तारापीडः, निशामणिः, मृगलाञ्छनः, दर्शविपत्, छायामृगधरः, ग्रहनेमिः, दाक्षायणीपति, लक्ष्मीसहजः, सुधाकरः, सुधाधारः, शीतभानुः, तमोहरः, तुशारकिरणः, परिः, हिमद्युतिः, द्विजपतिः, विश्वप्सा, अमृतदीधितिः, हरिणाङ्कः, रोहिणीपतिः, सिन्धुनन्दनः, तमोनुत्, एणतिलकः, कुमुदेशः, क्षीरोदनन्दनः, कान्तः, कलावान्, यामिनीजतिः, सिज्रः, मृगपिप्लुः, सुधानिधिः, तुङ्गी, पक्षजन्मा, अब्धीनवनीतकः, पीयूषमहाः, शीतमरीचिः, शीतलः, त्रिनेत्रचूडामणिः, अत्रिनेत्रभूः, सुधाङ्गः, परिज्ञाः, सुधाङ्गः, वलक्षगुः, तुङ्गीपतिः, यज्वनाम्पतिः, पर्व्वधिः, क्लेदुः, जयन्तः, तपसः, खचमसः, विकसः, दशवाजी, श्वेतवाजी, अमृतसूः, कौमुदीपतिः, कुमुदिनीपतिः, भूपतिः, दक्षजापतिः, ओषधीपतिः, कलाभृत्, शशभृत्, एणभृत्, छायाभृत्, अत्रिदृग्जः, निशारत्नम्, निशाकरः, अमृतः, श्वेतद्युतिः, हरिः
noun
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
"अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।"
Synonyms:
शङ्खः, कम्बुः, कम्बोजः, अब्जः, अर्णोभवः, पावनध्वनाः, अन्तकुटिलः, महानादः, श्वेतः, पूतः, मुखरः, दीर्घनादः, बहुनादः, हरिप्रियः, कस्रुः, दरम्, जलजः, रेवटः
noun
जन्तुविशेषः, समुद्रोद्भवजन्तुः।
"शङ्खः जलजन्तुः अस्ति। / भक्ततूर्यं गन्धतूर्यं रणतूर्यं महास्वनः संग्रामपटहः शङ्खस्तथा चाभयडिण्डिम।"
शब्दकल्पद्रुमः
Sanskrit
अब्जः,
पुं,
(अद्भ्यः जायते, अप् + जन् + डः ।)चन्द्रः धन्वन्तरिः निचुलवृक्षः इति मेदिनी
अब्जः,
पुं,
क्ली,
(अद्भ्यः जायते, अप् + जन + डः ।)शङ्खः इति मेदिनी
(जलभवशुक्तिमुक्तादिकं ।)“अब्जमश्ममयञ्चैव राजतञ्चानुपस्कृतं” ।“अब्जेषु चैव रत्नेषु सर्व्वेष्वश्ममयेषु च” ।इति मनुः ।)