| YouTube Channel

अबध्यं (abadhyaM)

 
शब्दकल्पद्रुमः
Sanskrit
अबध्यं, त्रि, (हन्तुमयोग्यं हन् + अर्हाद्यर्थे कर्म्मणियत्, “हनोवा बधच” इति बधादेशे बधम-र्हति इति बध्यः, बध्यः, नञ्समासः ।) अन-र्थकवाक्यं बधायोग्यं इति मेदिनी
(“अबद्धाञ्च स्त्रियं प्राहुस्तिर्य्यग्योनिगतामपि” ।इति स्मृतिः बधदण्डायोग्ये ब्राह्मणे च, “बधः स्वर्व्वस्वहरणं पुरान्निर्वासनाङ्कने” ।“तदङ्कच्छेदैत्युक्तो दण्ड उत्तमसाहसः ।अविशेषेण सर्व्वेषामेष दण्डविधिः स्मृतः
बधादृते ब्राह्यणस्य बधं ब्राह्मणोऽर्हति”
इति मिताक्षरायां ।)
अबध्यं, त्रि, (बधमर्हति, यत्, ततो नञ्समासः ।)मारणानर्हं बधायोग्यं अनर्थकवाक्यं इतिविश्वमेदिन्यौ यथा, --“अबध्याञ्च स्त्रियं प्राहुस्तिर्य्यग्योनिगतास्वपि ।”शत्रुस्त्रीणामबध्यत्वमाह मत्स्यपुराणं ।“किं त्वया श्रुतं लोके अबध्याः शत्रुयोषितः” ।इति प्रायश्चित्ततत्त्वं
*
आत्मन अबध्यत्वं यथा, --“देही नित्यमबध्योऽयं देहे सर्व्वस्य भारत ।तस्मात् सर्व्वाणि भूतानि त्वं शोचितुमर्हसि”
इति श्रीभगवद्गीतायां अध्यायः
*
तद्बधेपापं यथा, --“यावानबध्यस्य बधे तावान् बध्यस्य मोक्षणे ।अधर्म्मोर्नृ पतेर्दृष्टोधर्म्मस्तु विनियच्छतः”
इति मानवे अध्याये २४९ श्लोकः