| YouTube Channel

अबद्धमुखः (abaddhamukhaH)

 
E Bharati Sampat
Sanskrit
(वि) बद्धं नियमितं मुखमस्य अप्रियवादी, दुर्मुखः, मुखरः। ‘दुर्मुखे मुखराबद्धमुखौ’ अमरः। (स्त्री) अबद्धमुखा/अबद्धमुखी अबद्धमुख+वा ङीष् ‘स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्’ (४.१.५४)
शब्दकल्पद्रुमः
Sanskrit
अबद्धमुखः, त्रि, (न बद्धं नञ्समासः, अबद्धं यथा-भिलाषकथनेन अप्रतिबद्धं मुखं यस्य सः ।) अ-प्रियवादी दुर्म्मुखः इत्यमरः
(स्त्रियां वाङीप् अबद्धमुखी अबद्धमुखा)