| YouTube Channel

अफेनं (aphenaM)

 
शब्दकल्पद्रुमः
Sanskrit
अफेनं,
क्ली,
(निन्दितं फेनं निर्य्यासो यस्य तत् ।)वृक्षनिर्यासविशेषः आफिं इति भाषा तत्-पर्य्यायः खस्खसरसं निफेनं अहिफेनकं ४अस्य गुणाः सन्निपातनाशित्वं शुक्रबलमोह-कारित्वञ्च
तत्तु चतुर्व्विधं एकं श्वेतवर्णं ।अन्नजीर्णताकारकत्वान्नाम जारणं द्वितीयं कृष्ण-वर्णं मृत्युकारकत्वान्नाम मारणं तृतीयं पीतवर्णं ।वयःस्तम्भनकारकत्वान्नाम धारणं चतुर्थं कर्व्वूर-वर्णं मलसारकत्वान्नाम सारणं इति राज-निर्घण्टः
(त्रि, फेनरहितः “अनुष्णाभिरफेना-भिरद्भिस्तीर्थेन धर्म्मवित्” इति मनुः ।)