| YouTube Channel

अफलः (aphalaH)

 
E Bharati Sampat
Sanskrit
(पुं) नास्ति फलं पुष्पप्रभवं धर्मप्रभवं सुखादिकं वा यस्य १.इन्द्रः। २.अजः, छागः। (वि) ३.वन्ध्यः, फलरहितः वृक्षादिः। ‘बन्ध्ये मोघाऽफलमुधा’ हैमः। ४.निरर्थकः। ‘यथा चाज्ञेऽफलं दानं तथा मर्त्योऽनृचोऽफलः’ मनुः२.१५८। (स्त्री) अफला ५.कार्पासपादपः। ‘केसराबदराऽफला कार्पासी’ वैज०। ६.झावुकवृक्षः।
Wordnet
Sanskrit
Synonyms:
अकृष्यः, अकृष्या, अकृष्यम्, शुष्कः, शुष्का, शुष्कम्, निष्फलः, निष्फला, निष्फलम्, अफलः, अफला, अफलम्
noun
सा भूमिः या क्रष्टुम् अयोग्या।
"बहुदिनपर्यन्तम् एषा भूमि क्रष्टुम् योग्या अतः अकृष्या अभवत्।"
शब्दकल्पद्रुमः
Sanskrit
अफलः, त्रि, (नास्ति फलं वृक्षीत्पन्नं धर्म्मोत्पन्नं वायस्य सः ।) विफलः निष्फलः इति हेमचन्द्रः
फलकाले अनुत्पन्नफलकवृक्षः तत्पर्य्यायः बन्ध्यः २अवकेशी इत्यमरः
झावुकवृक्षः इतिशब्दचन्द्रिका