| YouTube Channel

अप्सरसः (apsarasaH)

 
E Bharati Sampat
Sanskrit
(स्त्री०ब०) (अप्सरस्) अद्भ्यः सरन्ति उद्गच्छन्ति अप्+सृ(गतौ)+असुन् ‘सर्तेरप् पूर्वादसिः’ उ०४.२३७। स्वर्वेश्याः।‘अप्सु निर्मथनादेव रसात्तस्माद्वरस्त्रियः। उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्’ ‘अप्सरसः स्वर्वेश्या उर्वशीमुखाः’ अमरः। ‘आराधितोऽद्धा मनुरप्सरोभिश्चक्रे प्रजाः स्वाः सनिमेशचिह्वाः’ माघः३.४२।
Wordnet
Sanskrit
Synonyms:
अप्सरसः, स्वर्वेश्याः, अप्सराः
noun
स्वर्गे वसन्त्यः अङ्गनाः।
"उर्वश्याद्याः अप्सरसः सन्ति।"
अभिधानरत्नमाला
Sanskrit
घृताची
घृताची, मेनका, रम्भा, उर्वशी, तिलोत्तमा, सुकेशी, मञ्जुघोषा, अप्सरसः
घृताची मेनका रम्भा उर्वशी तिलोत्तमा
सुकेशी मञ्जुघोषाद्याः कथ्यन्तेऽप्सरसो बुधैः ८८
verse 1.1.1.88
page 0011
शब्दकल्पद्रुमः
Sanskrit
अप्सरसः,
स्त्री,
(अद्भ्यः समुद्रजलेभ्यः सरन्ति उद्-यान्ति, अप् + सृ + असुन् ।) स्वर्व्वेश्याः उर्व्वशी-मेनकाद्याः बहुवचनान्तोऽयं शब्दः इत्यमरः
(“अप्सु निर्मथनादेव रसात् तस्मात् वरस्त्रियः ।उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्”
)