| YouTube Channel

अप्सरम् (apsaram)

 
वाचस्पत्यम्
Sanskrit
अप्सरम् स्त्री ब० व० अद्भ्यः सरन्ति उद्गच्छन्ति सृ--अमुन् ।समुद्रान्निस्सृतायां स्वर्वेश्यायाम् “अप्सुनिर्मथनादेव रसात्त-स्माद्वरस्त्रियः उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसो ऽभवन्”इत्युक्तेस्तासां तथात्वम् “एकाप्सरःप्रार्थितयोर्विवादः”रघुः “आराधितोऽद्धा मनुरप्सरोभिश्चक्रे प्रजाः स्वाः स-निमेषचिह्नाः” इति माघः तासां नाट्यकर्म्म वृत्तिः ।ताश्च प्रधानतया द्वादश वह्निपुराणे दर्शिताः “उर्व्वशीमेनका रम्भा मिश्रकेशी ह्यलम्बुषा विश्वाची घृताचीच पञ्चचूडा तिलोत्तमा भानुवत्यबला रम्या द्वादशाप्सरसःशुभाः” इति गणभेदनामाध्याये अत्र शुभा इतिविशेषणात् अन्या अपि ताश्च “उर्वशी मेनका रम्भाघृताची पुञ्जिकास्थला सुकेशी मञ्जुघोषा महारङ्गवतीतिच” इति मा०
पु०
“अदितिर्दितिर्दनुः काला दनायुःसिंहिका तथा क्रोधा प्रधा विश्वा विनता कपिलामुनिः कद्रुश्च मनुजव्याघ्र दक्षकन्यास्त्रयोदश” इतिकश्यपपत्नीरभिधाय “इत्येते देवगन्धर्व्वाः प्राधेयाःपरिकीर्त्तिताः” इति गन्धर्ववंशमभिधाय “इमं त्वप्सरसांवंशं विदितं पुण्यलक्षणम् प्रधाऽसूत महाभागादेवदेवर्षितः पुरा अलम्बुषा मिश्रकेशो विद्युत्पर्णा तिलो-त्तमा अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा केशिनीच सुबाहुश्च सुरता सुरसा तथा सुप्रिया चातिबाहुश्च”इत्युक्तम् भा० आ० प० एतासाञ्च चतुर्द्दशोत्पत्तिस्थानानि दम्बर्य्यां वर्ण्णितानि “यथा विबुधसद्मन्यपसरसोनाम कन्यकाः सन्तीति तासां चतुर्दश कुलानि एकं भगवतःकमलयोनेर्मनसः समुत्पन्नम्, अन्यद्वेदेभ्यः सम्भूतम्, अन्य-दग्नेरुद्भूतम् अन्यत् पवनात् प्रसूतम्, अन्यदमृतान्मथ्य-मानादुथितम्, अन्यज्जलाज्जातम्, अन्यदर्ककिरणेभ्योनिर्गतम्, अन्यत् सोमरश्मिभ्यो निष्पतितम्, अन्यद्भूमेरु-द्भूतम्, अन्यत् सौदामनीभ्यः प्रवृत्तम्, अन्यन्मृत्युना निर्मि-तम्, अपरं मकरकेतुना समुत्पादितम्, अन्यत्तु दक्षस्यप्रजापतेरतिप्रभूतानां सुतानां मध्ये द्वौ सुते मुनिररिष्टाच बभूवतुः, ताभ्यां गन्धर्वैः सह कुलद्वयं जातम्एवमेतान्येकत्र चतुर्दश कुलानि” एतन्मूलं तु विस्तरभया-न्नोक्तम् दिशि उपदिशि तयोर्जलहेतुत्वात्तथा-त्वम् “पुञ्जिकास्थला क्रतुश्चाप्सरसाविति” य०१५, १५, “पुञ्जिकास्थला क्रतुस्थला चाप्सरसौ दिगु-पदिग्रूपे परिचारिके” इति वेददी० “अप्सरसावितिदिक् उपदिक् स्माह” श्रुतेस्तथात्वम् “मेनकावै अप्सरारूपिणीति” भाष्यप्रयोगात् अप्सरसाविति श्रुतिनिर्देशाच्च नित्यबहुवचनान्ततेद्युत्सर्गः क्वचिदेकवचनान्तताऽपि