| YouTube Channel

अप्राप्तव्यवहारः (aprAptavyavahAraH)

 
E Bharati Sampat
Sanskrit
(वि) प्राप्तः व्यवहारयोग्यः कालः अस्य १.अपूर्णषोडशवर्षवयस्कः बालः। ‘अप्राप्तव्यवहारोऽसौ यावत् षोडशवर्षकः’ दक्षः। ‘अप्राप्तव्यवहाराणां धनं व्ययविवर्जितम् न्यसेयुर्बन्धुमित्रेषु प्रेषितानां तथैव च’ कात्या. स्मृ०। २.अनिवृत्तव्यवहारः। ‘अबध्यं यश्च बध्नानिबद्धं यश्च प्रमुञ्चति अप्राप्तव्यवहारं दाप्यो दममुत्तमम् ॥’ याज्ञ० २०.२४३।