| YouTube Channel

अप्राप्तकालः (aprAptakAlaH)

 
E Bharati Sampat
Sanskrit
(वि) प्राप्तः कालः अस्य १.अप्राप्तसमयकः, अनुचितकालः। ‘अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् लभते बुद्ध्यवज्ञानमपमानं पुष्कलम्’ पञ्चत० १.६३ (न) २.सभाक्षोभव्यामोहादिना व्यत्यस्ताभिधानरूपः वादिदोषभेदः। ‘अवयवविपर्यासवचनमप्राप्तकालम्’ गौ०सू०। प्रतिज्ञाहेतूदाहरणादीनां यथाक्रमं विन्यासे हि वादसमयः। तेषां व्युत्क्रमकथने वादिनो निग्रहः। ‘शब्दोऽनित्यः शब्दत्वात्’ इति वक्तव्ये ‘शब्दत्वात् शब्दोऽनित्यः’ इति वचनम् अप्राप्तकालम्