| YouTube Channel

अप्राप्तः (aprAptaH)

 
E Bharati Sampat
Sanskrit
(वि) प्राप्तः। १.अलब्धः। ‘अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः’ कारिका० ७.११५। २.अनागतः। ३.प्रमाणान्तरेण अनवगतः। ‘अप्राप्ते तु विधीयन्ते बहवोऽप्येक यत्नतः’ -मी०। ४.न्यूनवयस्कः, विवाहायोग्यः। ‘अप्राप्तामपि तां तस्मै कन्यां दद्यात्’ मनुः९.८८।
शब्दकल्पद्रुमः
Sanskrit
अप्राप्तः, त्रि, (प्र + आप् + कर्म्मणि क्तः, नञ्-समासः ।) अलब्धः यथा “अप्राप्तप्रापकोविधिः” इति सङ्कल्पकौमुदी दुर्गादासश्च
(अनधिगतः ।“अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः” ।इति भाषापरिछेदे अनुपस्थितः अनागतः ।न्यूनवयाः अप्राप्तकालः ।“उत्कृष्टायाभिरूपाय वराय सदृशाय ।अप्राप्तामपि तां तस्मै कन्यां दद्यात् यथाविधि”
इति मनुः ।)