| YouTube Channel

अप्रस्तुतप्रशंसा (aprastutaprazaMsA)

 
Spoken Sanskrit
English
अप्रस्तुतप्रशंसा - aprastutaprazaMsA -
f.
- conveying the subject-matter by that which is not the subject-matter
अप्रस्तुतस्तुति - aprastutastuti -
f.
- conveying the subject-matter by that which is not the subject-matter
भावार्थ - bhAvArtha -
m.
- subject-matter
वस्तु - vastu -
n.
- subject-matter
विषय - viSaya -
m.
- subject-matter
प्रस्तुत - prastuta -
n.
- chief subject-matter
अप्रस्ताविक - aprastAvika -
adj.
- irrelevant to the subject-matter
अप्रस्तुत - aprastuta -
adj.
- not being the chief subject-matter
अप्राकरणिक - aprAkaraNika -
adj.
- not connected with the subject-matter
श्रुतिविषय - zrutiviSaya -
m.
- subject-matter or doctrine of the veda
प्रबन्धार्थ - prabandhArtha -
m.
- subject-matter of a composition or treatise
विवादसंवादभू - vivAdasaMvAdabhU -
f.
- matter or subject of controversy or discussion
पदोच्चय - padoccaya -
m.
- accumulation of words which belong to the subject matter
व्यवहारविषय - vyavahAraviSaya -
m.
- any act or matter which may become the subject of legal proceedings
Monier Williams Cologne
English
अ-प्रस्तुत—प्रशंसा or अ-प्रस्तुत—स्तुति,
f.
‘conveying the subject-matter by that which is not the subject-matter’, (in rhetoric) implied or indirect expression.
Goldstucker
English
अप्रस्तुतप्रशंसा Tatpur. f. (-सा) (In Rhetoric.) One of the
अलङ्कार q. v. or elegant modes of composition
viz. implied
or indirect expression (literally: conveying--the subject
matter--by what is not the subject matter)
more espe-
cially defined as conveying the subject matter, if it is of a
specific nature by means of generalisation, or if it is of a
general kind, by means of specification, or if it is viewed
as a cause, by stating the effect, or if it is viewed as an
effect, by stating the cause, or hinting at the subject matter
by stating what is similar to it, (the latter category being
divided in two varieties which are again split in two other
varieties
while each of the named categories may be,
moreover, threefold, according to whether the expressed
special or general subject, fact, cause or similarity is of a
real or imaginary or mixed nature)
an instance of the
second category is the following: स्रगियं यदि जीवितापहा
हृदये किं निहिता हन्ति माम् विषमप्यमृतं क्वचिद्भवेदमृतं
वा विषमीश्वरेच्छया, where the general idea that the will
of God may turn evil into good and good into evil, is
conveyed by the special instance of poison and amṛta. E.
अप्रस्तुत and प्रशंसा.
Apte Hindi
Hindi
अप्रस्तुतप्रशंसा
स्त्री*
अप्रस्तुत-प्रशंसा -
"एक अलंकार जिसमें विषय से भिन्न अर्थात् अप्रस्तुत का वर्णन करने से प्रस्तुत अर्थात् विषय का संकेत हो जाता है, "
Shabdartha Kaustubha
Kannada
अप्रस्तुतप्रशंसा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅರ್ಥಾಲಂಕಾರದ ಒಂದು ಭೇದ
L R Vaidya
English
aprastuta-praSaMsA {% f. %} a figure of speech in rhetoric, in which the information to be given is conveyed by stating something else. According to K.Pr., it is of five kinds and is defined as conveying the subject-matter, if it is of a specific nature- (1) by means of generalisation, or if it is of a general kind
(2) by means of specification, or if it is viewed as a cause
(3) by stating the effect, or if it is viewed as an effect
(4) by stating the cause, or (5) hinting at the subject matter by stating what is similar to it. (For instances, See K.Pr.x.)
E Bharati Sampat
Sanskrit
(स्त्री) अर्थालङ्कारभेदः। अप्राकरणिकस्य अर्थस्य अभिधानेन प्राकरणिकस्य आक्षेपः। ‘अप्रस्तुतात् प्रस्तुतं चेद्गम्यते पञ्चधा मतः। अप्रस्तुतप्रशंसा स्यात्’ सा०द०१०.५९। ‘कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति तदन्यस्य वचःस्तुल्ये तुल्यस्येति पञ्चधा’ काव्यप्र०११.९९। यथा ‘पादाहतं यदुत्थाय मूर्धानमधिरोहति स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः’
Wordnet
Sanskrit
Synonyms:
अप्रस्तुतप्रशंसा
noun
अर्थालङ्कारविशेषः।
"अप्रस्तुतप्रशंसायाम् अप्रस्तुतस्य वर्णनेन प्रस्तुतस्य सत्ता दर्श्यते।"
Sanskrit Tibetan
Tibetan
skabs su ma bab bstod pa
अप्रस्तुतप्रशंसा
शब्दकल्पद्रुमः
Sanskrit
अप्रस्तुतप्रशंसा,
स्त्री,
काव्यालङ्कारविशेषः सा चअप्राकरणिकस्यार्थस्य अभिधानेन प्राकरणिक-स्याक्षेपः तस्या लक्षणं “अप्रस्तुतप्रशंसा सा याचैव प्रस्तुताश्रया सा कार्य्ये निमित्ते सामान्येविशेषे प्रस्तुते सति” ।“तदन्यस्य वचस्तुल्ये तुल्यस्येति पञ्चधा”
आद्याया उदाहरणं यथा, --“याताः किन्न मिलन्ति सुन्दरि पुनश्चिन्ता त्वयामत्कृते नो कार्य्यातितरां कृशासि कथयत्येवंसवाष्पे मयि लज्जामन्थरतारकेण निपतद्धा-राश्रुणा चक्षुषा दृष्ट्वा मां हसितेन भाविमरणो-त्साहस्त्वया सूचितः”
इति काव्यप्रकाशः
इतरासां उदाहरणानिबाहुल्यान्नोक्तानि
वाचस्पत्यम्
Sanskrit
अप्रस्तुतप्रशंसा स्त्री सा० द० उक्ते अर्यालङ्कारभेदे तल्लक्षणादि“कचिद्विशेषः सामान्यात् १, सामान्यं वा विशेषतः ।कार्य्यान्निमित्तं कार्य्यञ्च हेतेरथ समात् समम्
अप्रस्तुतात् प्रस्तुतञ्चेद्गम्यते पञ्चधा ततः अप्रस्तुतप्रशंसास्यात्” “पादाहतं यदुत्थाय मूर्द्धानमधिरोहति स्वस्थादे-वापमानेऽपि देहिनस्तद्बरं रजः”
अत्रास्मदपेक्षया रजो-ऽपि वरमिति विशेषे प्रस्तुते सामान्यमभिहितम् “स्रगियंयदि जीवितापहा हृदये किं निहिता हन्ति र्माम्? ।विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया”
अत्रे-श्वरेच्छया क्वचिदहितकारिणोऽपि हितकारित्वं, हितका-रिणोऽप्यहितकारित्वमिति सामान्ये प्रस्तुते विशेषोऽभिहितः ।एवञ्चात्राप्रस्तुतप्रशंसामूलोऽर्थान्तरन्यासः दृष्टान्ते प्रसिद्ध-मेव वस्तु प्रतिविग्वत्वेनोपादीयते इह नु विषामृतयोर-मृतविषीभावस्याप्रसिद्धेर्न तस्य सद्भावः
“इन्दुलिप्त इवा-ञ्जनेन, जडिता दृष्टिर्मृगीणामिव, प्रम्लानारुणिमेव विद्रुम-दलं श्यामेव हेमप्रभा कार्कर्श्यं कलया कोकिलबधूकण्ठे-ष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शखिनां वर्हा सगर्हेवमनु
अत्र संभाव्यमानेभ्य इन्द्वादिगताञ्जनलिप्तत्वादिभ्यःकार्य्येभ्यो वदनादिगतसौन्दर्य्यविशेषरूपं प्रस्तुतं कारणंप्रतीयते “गच्छामीति मयोक्तया मृगदृशा निःश्वासमुद्रे-किणं त्यक्त्वा तिर्य्यगवेक्ष्य वाष्पकलुषेणैकेन मां चक्षुषा ।अद्य प्रेम मदंर्पतं प्रियसखीवृन्दे त्वया बध्यतामित्थंस्नेहविवर्द्धितो मृगशिशुः सोत्प्रासमाभाषितः
अत्रकस्यचिदगमनरूपे कार्य्ये कारणमभिहितम् तुल्येऽप्रस्तुतेतुल्याभिधाने द्विधा श्लेषमूला सादृश्यमात्रमूला ।श्लेशमूलापि समासोक्तिवद्विशेषणमात्रश्लेषे, श्लेषवद्विशे-ष्पस्यापि श्लेषे भवतीति द्विधा क्रमेण यथा
“सहकारःसदामीदो वसन्तश्रीसमन्वितः समुज्ज्वलरुचिः श्रीमान्प्रभूतोत्कलिकाकुलः”
अत्र विशेषणमात्रश्लेषवशादप्रस्तु-तात् सहकारात् कस्यचित् प्रस्तुतस्य नायकस्य प्रतीतिः“पुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि यायाद्यदि प्रणयनेनमहानपि स्यात् अभ्युद्धरेत्तदपि विश्वसितीदृशीत्थंकेनापि दिक् प्रकटिता पुरुषोत्तमेम”
अत्र पुरुषोत्तम-पदेन विशेष्येणापि श्लिष्टेन प्रचुरप्रसिद्ध्या प्रथमं विष्णुरेवबोध्यते तेन वर्ण्णनीयः कश्चित्पुरुषः प्रतीयते सादृश्य-मात्रमूला यथा “एकः कपोतपोतः शतशः श्येनाःक्षुधाभिधावन्ति अम्बरमावृतिशून्यं हरि हरि शरणंविधेः करुणा”
अत्र कपोतादप्रस्तुतात् कश्चित् प्रस्तुतःप्रतीयते इयं क्वचित् वैधर्म्म्येणापि भवति यथा“धन्याः खलु वने वाताः कह्लारस्पर्शशीतलाः राममि-न्दीवरश्यामम् ये स्पृशन्त्यनिवारिताः”
अत्र वाता“धम्या अहमधन्या इति वैधर्म्म्येण प्रस्तुता प्रतीयते वाच्यस्यसम्भवासम्भवोभयरूपतया त्रिप्रकारेयम् तत्र सम्भवेउक्तोदाहरणान्येव असम्भवे यथा “कोकिलोऽहंभवान् काकः समानः लिमावयोः अन्तरं कथयि-ष्यन्ति काकलीको विदाः पुनः”
अत्र काककोकिलयो-र्वाकोवाक्यम् प्रस्तुताध्यारोपणं विनाऽसम्भवि उभय-रूपत्वे यथा “अन्तश्छिद्राणि भूयांसि कण्टका बहवोबहिः कथं कमलनालस्य मा भूवन् भङ्गुरा गुणाः”
अत्र प्रस्तुतस्य कस्यचिदध्यारोपणम् विना कमलनालान्त-ञ्छिद्राणाम् गुणभङ्गुरीकरणे हेतुत्वमसम्भवि अन्वेषान्तुसम्भवीत्युभयरूपत्वम्