| YouTube Channel

अप्रसन्नं (aprasannaM)

 
शब्दकल्पद्रुमः
Sanskrit
अप्रसन्नं, त्रि, (प्र + सद् + क्तः, नञ्समासः ।) आविलं ।अनच्छं इति शब्दरत्नावली
अतुष्टं यथा, --“त्वयि प्रसन्ने परशर्म्मभिः किंत्वय्यप्रसन्ने परशर्म्मभिः किं” ।इति प्राचीनाः
(अतुष्टः अप्रफुल्लः विषण्णः ।विरक्तः प्रतिकूलः “अप्रसन्नमनाः किं नु सदामां प्रति वत्सलः” इति रामायणे ।)