| YouTube Channel

अप्रतिसंख्यानिरोध (apratisaMkhyAnirodha)

 
Monier Williams Cologne
English
अ-प्रतिसंख्या—निरोध
m.
the unobserved annihilation of an object,
Buddh.
वाचस्पत्यम्
Sanskrit
अप्रतिसंख्यानिरोध
पु०
प्रतिसंख्यया बुद्ध्या निरोधः ।१ बौद्धविशेषकल्पिते अबुद्धिपूर्व्वके भावविनाशे तद्विशेषःबौद्धशब्दे वक्ष्वते सोऽयम् प्रतिसंख्यानिरोधः “प्रति-संख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात्” शा० सू० प्रत्या-ख्यातः “अपि वैनाशिकाः कल्पयन्ति बुद्धिबोध्यंत्रयादन्यत् संस्कृतं क्षणिकञ्चेति” तदपि त्रयं प्रति-संख्याऽप्रतिसंख्यानिरोधावाकाशञ्चेत्याचक्षते त्रयमपि-चैतदवस्तु अभावमात्रं निरुपाख्यमिति मन्यन्ते बुद्धिपूर्व्वकःकिल विनाशोभावानां प्रतिसंख्यानिरोधोनाम भाष्यतेतद्विपरीतोऽप्रतिसंख्यानिरोधः आवरणाभावमात्रमा-काशमिति प्रतिसंख्याऽप्रतिसंख्यानिरोधयोरप्राप्तिरसम्भइत्यर्थः कस्मात्? अविच्छेदात् तौ हि प्रतिसंख्याऽप्रति-संख्यानिरोधौ सन्तानगोचरौ वा स्याताम् भावगोचरौवा तावत् सन्तानगोचरौ सम्भवतः, सर्व्वेष्वपि सन्तानेषु(ज्ञानप्रवाहेषु) सन्तानिनामविच्छिन्नफलहेतुभावेन सन्तानविच्छेदस्यासम्भवात् नापि भावगोचरौ, नहि निराश्रयोनिरुपाख्योविनाशः सम्भवति सर्व्वास्ववस्थासु प्रत्यभिज्ञाबलेन-अन्वयाविच्छेददर्शनात् अदृष्टप्रत्यभिज्ञास्ववस्थासु क्वचिद्दृष्टेनान्वयाविच्छेदेन अन्यत्रापि तदनुमानात् तस्मात् पर-कल्पितस्य निरोधद्वयस्यानुपपत्तिरिति” शङ्करभाष्यम्