| YouTube Channel

अप्रतिष्ठः (apratiSThaH)

 
Hindi
Hindi
किसी भी स्थिति के बिना
E Bharati Sampat
Sanskrit
(वि) नास्ति प्रतिष्ठा यस्य १.अनाश्रयः। २.अप्रशस्तः, निन्द्यः। ३.प्रयोजनरहितः, निष्फलः। ‘नष्टं देवलके दत्तमप्रतिष्ठं तु वार्द्धुषौ’ मनुः३.१८०। ४.अस्थिरः। ५.अकारणः। ६.अप्रतिष्ठितः, प्रतिष्ठारहितः। ‘अप्रतिष्ठे रघुज्येष्ठे का प्रतिष्ठा कुलस्य नः’ उ०रा०५.२५। (न) ७.अन्याधारशून्यं स्वधामप्रतिष्ठितं परब्रह्म
शब्दकल्पद्रुमः
Sanskrit
अप्रतिष्ठः, त्रि, अप्रतिष्ठितः प्रतिष्ठारहितः ।नास्ति प्रतिष्ठा यस्येति बहुव्रीहौ ह्रस्वः यथा ।हयशीर्षपञ्चरात्रीयसङ्कर्षणकाण्डे ।“सर्व्वसूक्तेषु कर्त्तव्या प्रतिष्ठा विधिना बुधैः ।फलार्थिभिस्त्वप्रतिष्ठं यस्मान्निष्फलमुच्यते”
इति मठादिप्रतिष्ठातत्त्वं
(“अप्रतिष्ठे रघज्येष्ठे का प्रतिष्ठा कुलस्य नः” ।इति उत्तरचरिते ।)