| YouTube Channel

अप्रतिरथः (apratirathaH)

 
E Bharati Sampat
Sanskrit
(वि) विद्यते प्रतिरथः प्रतियोद्धा यस्य १.प्रतियोधशून्यः, शत्रुशून्यः। ‘दौष्यन्तिमप्रतिरथं तनयं निवेश्य’ शाकु०४.१९। २.अप्रतिमः, असदृशः। (पु) ३.भटः, योधः। ४.अतुल्यः, विष्णुः। (न) ५.यात्रामङ्गलार्थः सामभेदः। ‘ब्रह्मा दक्षिणतोऽप्रतिरथं जपति’ शतब्रा०। ‘भटे पुंस्यप्रतिरथं यात्रामङ्गलसाम्नि च’ त्रिका०।
Wordnet
Sanskrit
Synonyms:
अप्रतिरथः
noun
पौराणिकः ऋषिविशेषः।
"अप्रतिरथस्य वर्णनं ऋग्वेदे प्राप्यते।"
शब्दकल्पद्रुमः
Sanskrit
अप्रतिरथः,
पुं,
(नास्ति प्रतिरथः प्रतियोद्धा यस्यसः ।) योद्धा इति भूरिप्रयोगः
तुल्ययोद्धृ-रहितः इति पुराणं
(“दौष्मन्तिमप्रतिरथं तनयं प्रसूय”इति शाकुन्तले ।“एतेषां तमसामिवाप्रतिरथैस्तेजोभिः” ।इति महावीरचरिते ।)