| YouTube Channel

अप्रकाशः (aprakAzaH)

 
Hindi
Hindi
अंधेरा
E Bharati Sampat
Sanskrit
(पुं) प्रकाशः १.प्रकाशाभावः, गोपनम् (वि) प्रकाशः अस्ति अत्र २.गुप्तः, प्रकाशरहितः। ‘प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः’ रघुः१.६८। ३.जनान्तिकम् ‘जनान्तिकं त्वप्रकाशः’ त्रिका०। (क्रि०वि०) ४.गुप्ततया ‘प्रकाशं वाप्रकाशं वा मन्युस्तं मन्युमृच्छति’ मनुः८.३५१।
शब्दकल्पद्रुमः
Sanskrit
अप्रकाशः,
पुं,
(न प्रकाशः नञ्समासः ।) प्रकाशा-भावः तत्पर्य्यायः जनान्तिकं इति त्रि-काण्डशेषः
(गुप्तः अप्रकाशितः गूढः ।“द्विविधांस्तस्करान् विद्यात् परद्रव्यापहारकान् ।प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः”
इति मनुः प्रकाशते इति अप्रकाशः, पचा-द्यच् अन्धकारावृतः अदृश्यः ।“प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः” ।इति रघुवंशे निहितः प्रच्छादितः प्रोथितः ।“यानि चैवंप्रकाराणि कालाद्भमिर्न भक्षयेत् ।तानि सन्धिषु सीमायामप्रकाशानि कारयेत्”
इति मनुः रहसि परोक्षं ।“नाततायिबधे दोषो हन्तुर्भवति कश्चनः ।प्रकाशं वा प्रकाशं वा मन्युस्तम्मन्युमृच्छति”
इति मनुः ।) तद्विशिष्टे त्रि