| YouTube Channel

अप्यम् (apyam)

 
E Bharati Sampat
Sanskrit
(न) १.कोलम्, मरिचम् ‘अप्यं कोलं कटूत्कटम्’ वैज०। (वि) अपाम् अयम्, अप्सु साधुः संस्कृतः वा २.जलसम्बन्धी ‘त्वयाहितमप्यमप्सु भागम्’ ऋक् २.३८.७। ३.जलसंस्कृतः। ‘राजाप्यस्तमिष्यते’ ऋक् ९.८६.४५। ४.कर्मसाधुः। ‘मृगो अप्यो वनर्गुरुप’ ऋक् १.१४५.५। ५.अप्तुं योग्यः। प्राप्यः। ‘योनिमप्यमनिशितम्’ ऋक् २.३८.८।