| YouTube Channel

अपेयं (apeyaM)

 
शब्दकल्पद्रुमः
Sanskrit
अपेयं, त्रि, (पा + कर्म्मणि अर्हाद्यर्थे यत् ।) पाना-योग्यं अपानीयं यथा, -- “मद्यमपेयमदेय-मनिग्राह्यं” इति तिथ्यादितत्त्वे उशनःसूत्रं
(“जलधिजलमपेयं पण्डिते निर्धनत्वं” ।)(“यैः कृतः सर्व्वभक्ष्योऽग्निरपेयश्च महोदधिः ।क्षयी चाप्यायितः सोमःको नश्येत्प्रकोप्य तान्”
इति मनुः ।)