अपेय (apeya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishअपेय [apēya], Not fit to be drunk
अपेयेषु तडागेषु बहुतरमुदकं भवति 2.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams 1872
EnglishGoldstucker
EnglishShabdartha Kaustubha
Kannadaअपेय
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಪಾನಕ್ಕೆ ಅರ್ಹವಲ್ಲದ ಮದ್ಯ
निष्पत्तिः - > पा (पाने) - "यत्" (३-१-९७)
व्युत्पत्तिः - > न पातुं योग्यम्
Wordnet
Sanskrit अपेय
पातुं अयोग्यम्।
"अपेयस्य जलस्य पानेन केचित् जनाः व्याधिग्रस्ताः जाताः।"
अपेय
यत् पातुं न शक्यते।
"अपेयस्य जलस्य सेवनेन रोगाः सम्भवन्ति।"
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritअपेय पा अर्हाद्यर्थे यत् त० । १ स्मृतौ निपिद्धपानेमद्यादौ “मद्यमदेयमपेयमनिग्राह्यमिति” ति० त० उश०एवमन्यानि अपेयानि स्मृतौ प्रसिद्धानि यथा “वर्ज्यं स-लवणं क्षीरं यच्च विश्रथितं पयः । अनिर्द्दशायागोः क्षीरंपीत्वा चान्द्रायणं चरेदिति” आ० त० स्मृतिः । “अपःसुराभाजनस्था मद्यभाण्डे स्थितास्तथा पञ्चरात्रंपिवेत्पीत्वा शङ्खपुष्पीघृतं पय” इति मनुः । “शुनोच्छिष्टाःस्थिता ह्यापो यदि कश्चित् द्विजः पिबेत् शङ्खपुष्पीविपक्वेनत्र्यहं क्षीरेण वर्त्तयेदिति” यमः । “स्त्रियोच्छिष्टाः स्थिताआपो यदि कश्चित् पिबेद्द्विजः । शङ्खपुष्पीत्यादि० शङ्खः“शूद्रोच्छिष्टा स्थिताह्यापो यदि कश्चित् पिबेत् द्विजः ।कुशमूलविपक्केन त्र्यहं क्षीरेण वर्त्तयेदिति हारीतः “शुनासंस्पृष्ट भाण्डे तु रेतोमूत्रविदूषिते । जलक्षीरादिकं पीत्वातप्तकृच्छ्रं समाचरेत्” लघुबौ० । “चण्डालकूपभाण्डेषुयस्त्वज्ञानाज्जलं पिबेत् प्रायश्चित्तं कथं तत्र वर्ण्णेवर्ण्णे विधीयते । चरेत् सान्तपनं विप्रः प्राजापत्यन्तुभूमिपः । तदर्द्धं तु चरेद्वैश्यः पादं शूद्रस्य निर्द्दिशेत्”आप० । “चण्डालपरिगृहीतं योह्यज्ञानाज्जलं पिवेत् ।तस्य शुद्ध्विं विजानीयात् प्राजापत्येन नित्यश” इति आप० ।“यस्तु चण्डालसंस्पृष्टं पिबेत् किञ्चिदकामतः स तु सान्त-पनं कृच्छ्रं चरेच्छुद्ध्यर्थमात्मनः” अङ्गिराः । “किञ्चिदितिजलक्षीरादिकमिति” प्रा० बि० । आममांसादौ न दोषः ।“आमं मांसं घृतं क्षौद्रं स्नेहाश्च फलसम्भवाः । म्लेच्छ-भाण्डस्थिता दुष्टानिष्क्रान्ताः शुचयः स्मृताः” यमः“अन्त्यजैः खानिताः कूपास्तडानि तथैव च । एषु स्नात्वा चपीत्वा च पञ्चगव्येन शुध्यति” आप० । जलान्तरालाभे तुतदप्यापदि पातुं शक्यते “अन्त्यजैः खानिते कूपे सेतौवाप्यादिके तथा तत्र स्नात्वा च पीत्वा च प्रायश्चित्तं नविद्यते इति वृद्धशाता० । “इदमत्यन्तापद्विषयमिति” प्रा०वि० । “भाण्डस्थिता अभोज्यानामपः पीत्वा पयोदधि ।ब्राह्मणो क्षत्रियो वैश्यः शूद्रश्चैवोपसर्पति ब्रह्मकूर्चो-पवासश्च याज्यवर्ण्णस्य निषकृतिः” परा० । उपसर्पति उपसर्पेत्पायश्चित्तमिति शेषः तदेवाह ब्रह्मकूर्चोपेति । “यदिविप्रः प्रमादेन शूद्रतोयं पिबेत् स्वयम् । उपोव्य विल्व-पद्मानां पलाशस्य कुशस्य च । एतेषामुदकं पीत्वा तेनशुद्धिमवाप्नुयात्” शाता० । अत्रापवादः । “नवभाण्डेषुपानीयं विट्शूद्रक्षत्रजन्मनाम् । पेयं तदाहुर्विप्राणां पयो-दधि तथैव च” जावा० । “घृतं तैलं पयःक्षीरं तथैवेक्षुरसोगुडः । शूद्रभाण्डस्थितं तक्रं तथा मधु न दुष्यति” शाता० ।घृतादीनामाकरभाण्डस्थितानां न दोषः” शङ्खः । “पीता-वशेषितं पीत्वा पानीयं ब्राह्मणः क्वचित् । त्रिरात्रं तु व्रतंकुर्य्याद्वामहस्तेन वा पुनः” शङ्खः । “वामेन केबलेनेति”प्रा० वि० । “प्रपामरण्ये घटके च कूपे द्रोण्यां जलं कोष-गतास्तथापः । ऋतेऽपि शूद्रात्तदपेयमाहुरापद्गतो भूमि-गताः पिबेत्ता” इति यमः । प्रपाजलं, कूपजलाहरणघटस्थजलं द्रोणी सेकपात्रविशेषः तज्जलं, खड्गादिकोषगतं जलञ्च शूद्रासम्बन्धेऽप्यपेयम् “आपदि तु तदेवजलं भूमिगतं कृत्वा ततः पात्रान्तरेणोद्धृत्य पेयमिति”प्रा० वि० । एतद्विषये एव । द्रोण्यामायसयुक्तायां छन्ने प्राव-र्त्तके तथा । ग्रामप्रपाजलञ्चैव पीत्वापत्सु न दुष्यतीतिलघुहारीतः । तदपि भूमिगतं कृत्वैव पेयं पूर्बवचनैकवाक्य-त्वात् । “प्रावर्त्तके सेचके छन्ने अज्ञाते” प्रा० वि० । “कूपेविन्मूत्रसंसृष्टे पीत्वा तोयं द्विजोतमः । त्रिरात्रेण विशुध्येत”अङ्गिराः । “जलाशये तथान्येषुस्थावरेषुमहीतले । कूपवत्कथिता शुद्धिः महत्सु च न दूषणमिति” विष्णुः । “महत्-खप्यशुचिशङ्कया तीर्थसमीपतोयग्रहणवर्ज्जनमिति” प्रा०वि० । यथोक्तं देवलेन । “तत्राक्षोभ्यतडागानि नदीर्वापीःसरांसि च कस्मलाशुचियुक्तानि तीर्थतः परिवर्जयेदिति” ।“मृतपञ्चनखात् कूपादत्यन्तोपहताच्चोदकं पीत्वा ब्राह्मण-स्त्रिरात्रमुपवसेदित्यादि” विष्णुः “अत्यन्तोपहतात् अमे-ध्यादिनेति” प्रा० वि० । “यस्तु कूपात् पिबेत् तोयं ब्राह्मणःशवदूषितात् उपवासत्रयं कृत्वेत्यादि” लघुहा० । “क्लिन्नोभिन्नः शवश्चैव कूपस्थो यदि दृश्यते । पयः पीत्वा त्रिरात्रेणइत्यादि” देवलः । “पीतशेषं पिबेत् विप्रैर्विप्रः स्यादन्यथापशुरिति भवि० । “श्लेष्मोपानहविन्मूत्रं स्त्रीरजो मद्य-मेव च । एभिः संदूषिते कूपे तोयं पीत्वा कथं विधिः ।एकं द्व्यहं त्र्यहञ्चैव द्विजातीनां विशोधनमिति” अत्रिः ।अत्रापवादमाह स एव “गोदोहने चर्म्मपुटे च तोयं यन्त्रा-करे कारुकशिल्पिहस्ते । स्त्रीबालवृद्धाचरितानि यान्य-प्रत्यक्षदृष्टानि शुचीनि तानि । प्राकाररोधे विषमप्रदेशेसेवानिवेशे भवनस्य दाहे । आरब्धयज्ञेषु महोत्सवेषुतथैव दोषा न विकल्पनीयाः । शुचि गोतृप्तिकृत्तोयं प्र-कृतिस्थं महीगतम् । चर्म्मभाण्डैस्तु धाराभिस्तथा यन्त्रो-द्धृतं जलमिति” । प्रागुक्तवचनजातैः चर्म्मभाण्डस्थित-यन्त्रोद्ध्वतयोरपेयत्वेन निषेधे प्राप्ते चर्मभाण्डैरुद्धृतंथन्त्रोद्धृतञ्च सन्ततधारयोद्धृतञ्च एतत्त्रयं यदि महीगतंगोतृप्तिकरं प्रकृतिस्थमविकृतं च तदा शुचीत्यनेन प्रतिप्रसूतम्महत्सु च न दुष्यतीत्यनेन महत्त्वस्यापेक्षाकृतत्वेन अव्या-वर्त्तकतया गोतृप्तिकरत्वेन विशेषणात् तथाभूतं महत्त्व-मेव प्रकृते विवक्षितम् । तदपि जलान्तराभावे शुद्धमित्य-वधेयं प्रागुक्तवचने आपद्गतस्यैव भूमिगतं कृत्वा तत उद्धृत्यपानविधानेन तदेकवाक्यत्वात् तथैवेह ज्ञेयम् । एतच्च स्वभा-वतः पेयजलस्यैव--चर्म्मभाण्डादिस्थितिरूपदोषप्रतिप्रसवार्थम्न तु अपेयम्लेच्छादिखानिततोयस्यापि पेयताविधा-नार्थं तथात्वे वाक्यभेदापत्तेः न च हिरण्योदकस्पर्शस्य अन्न-स्येव सामान्यशास्त्रनिषिद्धापेयजलस्य शुद्ध्यर्थतापरं स्वभावतःपेयस्यैव चर्म्मभाण्डादिगतत्वेन दोषपरिहारर्थतापरतयैवसर्व्वसामञ्जस्ये विधिद्वयकल्पनायाः अन्याय्यत्वात् एतेनइदानीन्तनम्लेच्छराजखानितस्थजलस्य यन्त्रोद्धृतत्वेन शुद्ध-ताकीर्त्तनं साहसमेव तस्य म्लेच्छखानितजलत्वेन स्वभा-वतोऽपेयत्वात् जलान्तरस्य गङ्गाजलस्य च सन्निकृष्टत्वादाप-द्विषयत्वाभावात् प्रकृतिस्थविशेषणाच्च तस्य संस्कारविशेषेणविकारविशेषवत्त्वादेतद्वचनस्यापि तत्राप्रवृत्तेश्च । किञ्च“विचित्सा तु हृदये यस्मिन्नन्ने प्रजायते सहृल्लेखन्तु विज्ञेयंपुरीषन्तत् स्वभावतः” इति ब्रह्मपुराणेन अमेध्यस्पर्शवत्त्वेनशङ्कितान्नादेर्भोजननिषेधात् म्लेच्छामेध्यादिस्पर्शवत्त्वेन शङ्कितस्यास्य जलादेरप्यपेयतेति गम्यते । शशिसूर्य्यकिरणास्पृष्ट-तया च तस्य व्यापन्नजलतया बैद्यकोक्तदोषाधायकत्वेनापिऽपेयता । “अपि चण्डालभाण्डस्थं तज्जलं पावनं महत्”इत्युक्तेस्तत्रत्यखाते गङ्गाजलानामेवाहृतत्वात्तस्य स्वभावतःशुद्धतेति तु न शङ्क्य “सर्वत्र पावनी गङ्गा त्रिषु स्थानेषु दुष्यतिम्लेच्छस्पर्शे सुराभाण्डे मेघादिजलमिश्रणे” इति वचनात्तस्य मेघादिजलसम्पर्कशङ्कायाम्लेच्छादिस्पर्शस्य प्रत्यक्ष-दर्शनाच्च स्वभावतः शुद्धत्वाभावात् । धारायां प्रतिप्रसवमाहबैधायनः “अदुष्टा सन्तता धारा वातोद्धूताश्च रेणवः । आ-कराः शुचयः सर्वे वर्ज्जयित्वा सुराकरमिति “काले नवोदकंशुद्धं न पातव्यन्तु तत्र्यहम् । अकाले तु दशाहं स्यात्पीत्वा नाद्यादहर्निशमिति” आ० त० स्मृतिः । “स्नानमाच-मनं दानं देवतापितृतर्पणम् । शूद्रोदकैर्नकुर्वीत तथा मेघा-द्विनिःसृतैः” । आचमननिषेधात् पानादेः सुतरां नि-षेधः । “यव्यद्वयं श्रावणादि सर्व्वा नद्यो रजस्वलाः । तासुस्नानादिकं वर्ज्यं वर्ज्जयित्वा सुरापगाम् इति” छन्दो० प० ।“यैः कृतः सर्वमक्ष्योऽग्निस्त्वपेयश्च महोदधिरिति” मनुः यैःविप्रैः “अन्यथा हि कृरुश्रेष्ठ । देवयोनिरपांपतिः । कु-शाग्रेणापि कौन्तेय नस्पष्टव्योमहोदधिरिति भा० ब० प०स्पर्शनिषेधात् पाननिषेधः । “अनिर्द्दशाया गोः क्षीरमौष्ट्रमैशफं तथा । आविकं सन्धिनीक्षीरं विवत्सायाश्च गोः पयः ।आरण्यानाञ्च सर्व्वेषां मृगाणां महिषं विना । स्त्री-क्षीरञ्चैव वर्ज्यानि सर्व्वशुक्तानि चैव हि” मनुः । “गोः क्षीर-मनिर्द्दशायाः सूतके अजामहीष्योश्च नित्यमपेयमौष्ट्रमैक-शफञ्च स्यन्दिनीनाञ्च याश्च वत्सव्यपेताः” अङ्गि० । “व-र्ज्जयेद्गोरवत्सायाः पयश्चैवान्यवत्सया । आरण्यानाञ्चसर्व्वेषां वर्ज्जयित्वा तु माहिषमिति” यमः । “सर्वासां द्वि-स्तनीनां क्षीरं वर्ज्यमजावर्ज्जमिति” शङ्खः “गोजामहिषीबर्ज्जंसर्वपयांसि यान्यनिर्दशाहं तान्यपि सन्धिनीस्यन्दिनीविव-त्सायमसूक्षोरं चामेध्यभुजश्च” विष्णुः । पीत्वोपवसेदित्यनु-वृत्तिः । सन्धिनी वृषभाक्रान्ता स्यन्दिनी नित्यं प्रस्रवत्पयः-स्तना । अमेध्यभुजः मद्यादिभक्षणशोलायाः । यमसूर्वत्स-युग्मं प्रसूता “हस्तवत्या निन्दितं रासभञ्च पयो वर्ज्जये-दिति” हारीतः । तत्राजाक्षीरं दशाहादर्वाक् निषिद्धम्ऊर्द्ध्वं तत् पेयं सर्ववचनसामञ्चस्यात् “गोघ्रातं शकनोच्छिष्टंषदास्पृष्टञ्च कामतः । सन्धिन्यनिर्द्दशावत्सगोपयः परिवर्ज्ज-येत् याज्ञ० । “क्षीराणि यान्यभक्ष्याणि तद्विकाराशने पुनःसप्तरात्रं व्रतं कुर्य्यादित्यादि” या० । “उष्ट्रीक्षीरमानुषी-क्षीरपाने पुनरुपनयनं तप्तकृच्छ्रञ्चेत्यादि” शाता० ।“उद्धतस्नेहविलयनपिन्याकमथितप्रभृतीनि चात्तवीर्य्याणिनाश्नीयात्” गौत० । उद्धतस्नेहं, क्षीरादि विलयनं घृतमलंपिन्याकः खलिः मथितं तक्रादि आंत्तवीर्य्याणि गृहीत-साराणि ॥
आत्तवीर्य्यपदञ्चात्यन्तोद्धृतस्नेहपरं मथित-पदं च उदकप्रायतक्रपरञ्च । “क्षत्रियश्चैव वृत्तस्थोवैश्यः शूद्रोऽथ वा पुनः । यः पिबेत् कपिलाक्षीरं न ततो-ऽन्योऽस्त्यपुण्यकृत्” आप० । “कापिलं यः पिबेच्छूद्रोनरकेण विपच्यते” स्मृतिः । सुश्रुते तु धातुदोषविशेषजनक-तयाकानिचिदपेयान्युक्तानि तानि प्रायशः सामान्यतोऽ-पेयशब्दे २२६, २७, पृष्ठे उक्तानि । तत्र विशेषः कश्चित्प्रदर्श्यते “वर्षाजले गाङ्गेयत्वसामुद्रत्वपरीक्षणमुक्त्वा“वर्ण्णान्यत्वे सिक्यक्लेदे च सामुद्रमिति विद्यात्तन्नोपादेय-मित्युक्तम् कीटमूत्रपुरीषाण्डशवकोथप्रदूषितम् । तृणपर्ण्णो-त्कख्युतं कलुषं विपसं युतम् योऽवगाहेत वर्षासु पिबेद्वापि नवंजलम् । स वाह्याभ्यन्तरान् रोगान् प्राप्नुयात् क्षिप्रमेव तुतत्र यत् सैवालपद्मतृणपङ्कप्रमृतिभिरवच्छन्नं शशिसूर्य्यकिरणै-र्नाभिजुष्टं गन्धवर्ण्णरसोपमृष्टञ्च तद्व्यापन्नमिति विद्यात् । तस्यस्पर्शरूपरसगन्धवीर्य्यविपाकाः दोषाः षट् सम्भवन्ति । व्यापन्नंवर्ज्जयेन्नित्यं तोयं यदप्यनार्त्तवम् । दोषसञ्जननं ह्येत-न्नाददीताहितन्तु तत् । “व्यापन्नं सलिलं यस्तु पिब-तीहाप्रसाधितम् । श्वयथु पाण्डुरोगञ्च त्वग्दोषमविपाक-ताम् । श्वासकासप्रतिश्यायशूलगुल्मोदराणि च ।अन्यान् वा विषमान् रोगान् प्राप्नुयात् क्षिप्रमेव चेति”नदीविशेषजलस्य दोषकीर्त्तनेनापेयता च तत्रोक्ता “पूर्व्वाभि-मुखास्तु न” प्रशस्यन्ते गुरूदकत्वादिति । सह्यप्रभवाःकुष्ठं जनयन्ति, विन्ध्यप्रभवाः कुष्ठ पाण्डुरोगञ्च, मलय-प्रभवाः कृमीन्, महेन्द्रप्रभवाः श्लीपदोदराणि, हिमवत्प्र-भवाः हृद्रोगश्वयथुशिरोरोगश्लीपदगलगण्डान्, प्राच्या-वन्त्याः अपरावन्त्याश्चाशांस्युपजनयन्ति, इति “सामुद्रमुदकंविस्रं लवणं सर्व्वदोषकृदिति । अनेकदोषमानूपं वार्य्यु-भिष्यन्दि गर्हितमिति” च । रोगभेदे शीतलजलस्यापेयताप्युक्ता, “पार्श्वशूले प्रतिश्याये, वातरोगे गलग्रहे, आध्माते स्तिमितेकोष्ठे सद्यः शुद्धे नवज्वरे । हिक्कायां स्नेहपीते च शीताम्बुपरिवर्ज्जयेदिति” । तक्रस्यापेयता रोगभेदे तत्रोक्ता “तक्रं नैवक्षते दद्यान्नोष्णकाले न दुर्बले । न मूर्च्छाभ्रमदाहेषु नरोगे रक्तपैत्तिके । शीतकालेऽग्निमान्द्ये च कफोत्थेष्वाम-येषु चेति” । द्रव्यान्तरसंयोगादपेयता अपथ्यशब्दे २२६, २७, पृष्ठे दर्शिता । विशेषस्त्वेषः । “उष्णोदकानुपानन्तु स्नेहा-नामथ शस्यते, ऋतेभल्लातकस्नेहात् स्नेहात्तौवरकात्तथेति”रोगभेदेऽनुपाननिषेधेन तत्र जलादीनामपेयता भङ्ग्यातत्रैव दशिता । अनुपानगुणमभिधाय “न प्रिबेच्छ्वासका-सार्त्तो रोगे चाप्यूर्द्ध्वजत्रुगे । क्षतोरस्कः प्रसेकी च यस्य चोप-हतः स्वरः । पीत्वाऽध्वभाष्याध्ययनगेयस्वप्नान्न शीलयेत् ।प्रदुष्यामाशयं तद्धि तस्य कण्ठोरसि स्थितः । मन्दाग्निसाद-छर्द्द्यादीनामयान् जनयेत् बहूनिति” सुश्रुते ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
