| YouTube Channel

अपेतरासक्षी (apetarAsakSI)

 
वाचस्पत्यम्
Sanskrit
अपेतरासक्षी स्त्री अपेतः राक्षस इव पातकं यस्याः गौ० ङीष् ।तुलस्याम् राजनि० तस्याः राक्षमतल्यपापादिहरणा-त्तथात्वम् “दूर्व्वा दहति पापानि धात्री हरतिपातकम् हरितकी हरेद्रोगं तुलसी हरते त्रयम्”आ० त० स्कान्दोक्तेस्तस्याः पापादिहारित्वम्