| YouTube Channel

अपेक्षाबुद्धिज (apekSAbuddhija)

 
वाचस्पत्यम्
Sanskrit
अपेक्षाबुद्धिज
त्रि०
अपेक्षाबुद्धितो जायते जन--ड त० ।न्यायोक्ते द्वित्वादिपरार्द्धान्ते संख्याभेदे “द्वित्वादयः परा-र्द्धान्ता अपेक्षाबुद्धिजा मताः अनेकाश्रयपर्य्याप्ता एते तुपरिकीर्त्तिताः अपेक्षाबुद्धिनाशाच्च नाशस्तेषां प्रकीर्त्तित”इति भाषा० अत्रायमभिसन्धिः यद्यपि द्वित्वादिसमवायः प्रत्येकं घटादावस्ति तथापि एकोद्वाविति ज्ञाना-भावात् एको द्वावितिज्ञानाच्च द्वित्वादीनां पर्य्याप्तिस्वरूपःकश्चित् संबन्धोऽनेकाश्रयोऽङ्गीक्रियते पर्य्याप्तिसंबन्धेन चप्रत्येकं घटादौ द्वित्वादि तादृशसम्बन्धश्च अपेक्षाबुद्धि-सापेक्षस्तेन तत्सत्त्वे तथा ज्ञानं, तदसत्वे तथाज्ञानम् ।तत्र प्रथमम् अयमेकः अयमेक इत्याकारिका अपेक्षाबुद्धि-स्ततोद्वित्वोत्पत्तिः ततो द्वित्वद्वित्वत्वनिर्विकल्पकं ततोद्वित्व-प्रत्यक्षम् अपेक्षाबुद्धिनाशाच्च ततोद्वित्वनाशः इति यद्यपियोग्यविभुविशेषगुणानां स्वोत्तरवर्त्तिगुणनाश्यत्वेन ज्ञानमा-त्रस्य द्विक्षणस्थायित्वं तथापि अगत्या अपेक्षाबुद्धेस्त्रिक्ष्ण-स्थायित्वं स्वीक्रियते अन्यथा निर्विकल्पककाले अपेक्षा-बुद्धिनाशे द्वित्वस्य नाशः प्रसज्येत तु द्वित्वप्रत्यक्षं तदानींविषयाभावात् विषयस्य प्रत्यक्षं प्रति कार्य्यकालवृत्तितयैवकारणत्वोपशमात् तथा द्वित्वप्रत्यक्षमेवापेक्षाबुद्धिनाशकंनान्यदिति कल्प्यते कालान्तरे द्वित्वप्रत्यक्षाभावाच्च अ-पेक्षाबुद्धिनाशात् द्वित्वादिनाशैति कल्प्यतैति सि० मु०