| YouTube Channel

अपेक्षाबुद्धिः (apekSAbuddhiH)

 
E Bharati Sampat
Sanskrit
(स्त्री) अयमेकः अयमेकः - इत्याकारिका अनेकैकत्वविषयिणी बुद्धिः, नानैकत्वावगाहिबुद्धिः। ‘अनेकैकत्वबुद्धिर्या सापेक्षाबुद्धिरिष्यते’ कारिका०७.१०९।
Wordnet
Sanskrit
Synonyms:
अपेक्षाबुद्धिः
noun
वैशेषिकाणाम् अनुसारेण बुद्धेः निर्मलता।
"ध्यानाय अपेक्षाबुद्धेः आवश्यकता भवति।"
शब्दकल्पद्रुमः
Sanskrit
अपेक्षाबुद्धिः,
स्त्री,
अनेकैकत्वंविषयकबुद्धिः ना-नैकत्वावगाहिबुद्धिः अयमेकः अयमेक इत्या-कारबुद्धिः इति भाषापरिच्छेदः
(“अनेकैकत्वबुद्धिर्या सापेक्षाबुद्धिरुच्यते” इति“अपेक्षाबुद्धिनाशाच्च नाशस्तेषां निरूपितः”इति भाषापरिच्छेदे ।)