| YouTube Channel

अपूर्व्वविधि (apUrvvavidhi)

 
वाचस्पत्यम्
Sanskrit
अपूर्व्वविधि
पु०
अपूर्व्वे प्रमाणान्तरेणाप्राप्ते विधिर्विधानम्वि + धा--कि अप्राप्तप्रापके लिङादिपदवेदनोये शब्द-विशेषे यथा स्वर्गकामो यजेतेति लिङादियुक्तं वाक्यंप्रमाणान्तरेणाप्राप्तस्य स्वर्गसाधनत्वस्य यागे बोधयत् तथा ।अपूर्व्वविधिरपि चतुर्विधः कर्म्मविधिः गुणविधिः विनि-योगविधिः प्रयोगविधिश्चेति तत्र अग्निहोत्रं जुहोतिइत्यादौ यागरूपे कर्मणि इष्टसाधनतायाः, कृतिसाध्य-ताया, भावनाया वा मतभेदेन बोधनात् कर्म्मविधित्वम् ।द्रव्यदेवतादिविघायकविधिर्गुणविधिः यथा दध्नाजुहोत्यादिवाक्यं प्राप्तस्याग्निहोत्रस्यानुवादेनाप्राप्तगुणरूप-द्रव्यादेर्विधानात् “ऐन्द्र्या गार्हपत्यमुपतिष्ठत इत्यादिऐन्द्र्या ऋचः गार्हपत्योपस्थाने विनियोजनात् विनियोग-विधिः एवं कृत्वा एवं कुर्य्यादित्यादि प्रयोगज्ञापकोविधिःप्रयोगविधिः, यथा अधीत्य स्नायादित्यादि “उपसद्भिश्च-रित्वा मासमेकमग्निहोत्रं जुहोत्यादि अयञ्च विशिष्ट-विधिरिति भेदः