| YouTube Channel

अपूर्व्वं (apUrvvaM)

 
शब्दकल्पद्रुमः
Sanskrit
अपूर्व्वं,
क्ली,
(नास्ति पूर्व्वं पूर्व्वकालभवं दृष्टं यस्यतत् ।) कर्म्मजन्यमदृष्टं तत्पर्य्यायः अनुशयः २नियोगः अतिशयः कार्य्यं प्रयोगः ।इति स्मृतिः
तच्चतुर्तिधं यथा फलापूर्व्वं १समुदायापूर्व्वं उत्पत्त्यपूर्व्वं अङ्गापूर्व्वं येनस्वर्ग आरभ्यते तत् फलापूर्व्वं अमावास्यायांत्रयाणां यागानामेकः समुदायः पौर्णमास्यामपरःतयोर्भिन्नकालवर्त्तिनोः संहत्यफलापूर्व्वारम्भायो-गात्तदारम्भाय समुदायद्वयजन्यमपूर्व्वद्वयं कल्प-नीयं तयोरेकैकस्यारम्भाय एकैकसमुदायवर्त्तिनांत्रयाणां यागानां भिन्नक्षणवर्त्तित्वेन संघातापत्त्य-भावात् यागत्रयजन्यानि त्रीण्युत्पत्त्यपूर्व्वाणि क-ल्पनीयानि तेषाञ्चाङ्गोपकारमन्तरेणानिष्पत्ते-रङ्गानां चानेकक्षणवर्त्तिनां संघातासम्भवात् अ-ङ्गापूर्व्वाणि कल्पनीयानि तत्र त्वयं विभागः ।इत्यधिकरणमाला
अपूर्व्वं, त्रि, (नास्ति पूर्व्वं यस्य, पूर्व्वः नञ्समासः ।)आश्चर्य्यं यथा, --“अपूर्व्वेयं हरेर्माया त्रिगुणा रज्जुरूपिणी ।यया मुक्त्वो चलति बद्धो धावति धावति”
इति उद्भटः
पूर्व्वदिग्देशकालभिन्नं