अपूर्व्व (apUrvva)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritअपूर्व्व न पूर्व्वं दृष्टम् । १ अविदिते २ आश्चर्य्ये “अध-नुषि शरजालं मर्मभेदानुकारि त्रितयमिदमपूर्व्वंदृष्टमन्तःपुरे ते” इति “अपूर्व्वो दृश्यते वह्निःकामिन्याः स्तनमण्डले । दूरतोदहतीवाङ्गं हृदि लग्नस्तुशीतल” इति च उद्भटः । पूर्व्वः पूर्व्ववर्त्ती ब० ।३ हेतुशून्ये । त० । ४ पूर्व्वकालादिभिन्ने ।पूर्व्वशब्दस्य दिग्देशकालवाचित्वे सर्वनामतया ततो नञ्तत्-पुरुषेऽपि अस्य सर्वनामता तेन तत्कार्य्यम् अपूर्व्वे अपू-र्बर्स्मै ङिङस्योस्तु वा वृत्तौ पुंवद्भावश्च “कौमारापूर्व्व-वचने” इति पा० ५ परब्रह्मणि । “तदेतद् ब्रह्मापूर्व्वमन-परमनन्तरमपारमवाह्यमिति” शत० ब्रा० । ६ प्रमाणान्तरा-प्राप्ते “उपक्रमोपसंहारावभ्यासोऽपूर्व्वता फलमिति” वेदा०सा० ७ वैधनिषिद्धक्रियाजन्ययोः कालान्तरभाविनोः सुखदुः-खयोर्हेतुभूतयोः पुण्यपापयोः । अदृष्टसिद्धिवत् अपूर्व्व-सिद्धिरुन्नेया । सा च ११७ पृष्ठे दृश्या । स्वर्गकामोयजेतत्यादौलिङा हि यागादौ इष्टसाधनत्वं बोध्यते इति नैयायिकाःकार्य्यत्वेनापूर्व्वं बोध्यते इति प्राभाकरामन्यन्ते । तत्रोभय-मतेऽपि, आशुविनाशिनः कालान्तरभाविफलजनकत्वेफलसमयपर्य्यन्तस्थायिव्यापारजनकत्वं प्रयोजकमिति तथाहि अव्यवहितपूर्व्वस्थायिन एव कारणत्वेन यागस्यकालान्तरभाविस्वर्गस्य च मध्ये व्यापाररूपमपूर्व्वं प्रकल्प्यतेसाक्षादसाधनस्य यागस्य स्वर्गसाधनता व्यापारमन्तरेणानु-पद्यमाना स्वर्गनिर्वाहकं व्यापारमपूर्व्वं कल्पयतीति । तच्चा-पूर्व्वं किंनिष्ठं कथं वा तस्यैव व्यापारत्वमित्याशङ्क्यशब्दचिन्तामणौ निर्ण्णीतं यथा “तथापि ध्वंस एवव्यापारोऽस्तु तव सहभावनिरूपकस्यापि कारणत्वात्तस्यानन्तत्वेऽपि स्वभावात् सावधेः फलजनकत्वम् ।यत्र ध्वंसोहेतुस्तत्र तत्प्रागभावोऽपीति चेत् न दुग्ध-ध्वंसजन्यदध्नि, मिथ्याधीध्वंससाध्यमुक्तौ च व्यभिचारात् ।प्रतिबन्धकाभावत्वेन हेतुत्वे, तथाभायाच्च ध्वंसेनानुपपत्तिःकथं तेनैव समाधातव्येति चेन्न ध्वंसे सति तद्व्यापारत्व-ज्ञानं विनानुपपत्तेस्तद्व्यापारत्वकल्पनया शान्तेरिति मैवंप्रतियोगिध्वंसयोरेकत्राजनकत्वात् न हि नियमतोध्वंसेसति यद्भवति तत्तत्र कारणम् न च संसर्गाभावत्वेन हेतुत्वेतथेति वाच्यं व्यभिचाराभावेन तस्यापि प्रयोजकत्वात् ।अथ शब्दाद्यागकारणता, व्यापारं विना तदनुपपत्तेःन च तज्जन्यध्वंसस्य कारणत्वकल्पनमित्युभयमपि जनकम्अन्यत्र तु मानाभावान्न तथेति वाच्यं यागध्वंसस्य यागजन्य-स्वर्गं प्रति जनकत्वस्य प्रमाणान्तरविरोधेनार्थापत्त्यकल्प-नात् । अस्तु देवताप्रीतिरेव व्यापार इति चेन्न यागस्यदेवताप्रीतिहेतुत्वे मानाभावात् गङ्गास्नानादौ देवता-विरहेण तदभावात् । न च तत्रापि तत्प्रीतिः, तस्यतत्प्रीतिहेतुत्वे मानाभावात् लाघवेन कर्तृगतव्यापार-कल्पनाच्च ननु नायं नियमः, पुत्रगतश्राद्धादिना पितरि, पितॄगतजातेट्या पुत्रे चादृष्टोत्पत्तेश्च अथ तत्रापिकर्त्तर्य्येवादृष्टं, विहितक्रियाया यागस्येव कर्त्तृगतादृष्टजनकत्वात् । न च मुक्ते पुत्रे तददृष्टनाशात् पितरि-स्वर्गःस्यादिति वाच्यम् अदृष्टस्य फलनाश्यतया पितरिस्वर्गाभावेनादृष्टानाशात् स्वपृत्तियागजन्यादृष्टस्य मुक्ति-विरोधित्वात् न तु पितृगतमदृष्टं जन्यते मुक्ते पितरिदोषाभावेन योगिनामिव विहितक्रियायाः, पित्रदृष्ट-जनकचात् तथात्वे च साङ्गमपि श्राद्धादिकं निःफलंस्यादिति तद्विधेरप्रामाण्यापत्ति पुत्रगतादृष्टेन च मुक्त-पितरि सुखोत्पत्तौ न विरोधः योगिनामिव सुखोत्पत्तौदोषस्याहेतुत्वात् अथ पितृसुखं पितृपुण्यजन्यमितिपितरि न पुण्यं तेन विना तदभावात्, न, पुत्रे तत्फल-प्रसङ्गात् । पितृस्वर्गकामनाजन्यक्रिया पितृपुण्यहेतु-रिति पुत्रक्रियापि तज्जनिकेति चेत् एवं पितृक्रिया-पितृपुण्यजनिकेति न तं विना पितरि पुण्यं, पुत्रक्रिया चपुत्रपुण्यजनिकेति पुत्रेपुण्यं, पितृस्वर्गकामनाजन्यपुण्यत्वेनपितृस्वर्गहेतुरस्तु तत्पुण्यं पितृवृत्ति तत्सुखहेतुत्वात् न चपुत्रवृत्ति, तत्सुखाहेतुत्वादिति न, तत्पुण्यं न पितृ-वृत्ति तत्कृत्यजन्यपुण्यत्वात् पुत्रवृत्ति वा तत्कृतिजन्यपुण्यत्वात् तत्कृतपुण्यवत् तस्मात् पितृस्वर्गकामनाजन्यपुण्यस्वेन पितृस्वर्गहेतुतेति पुत्रएव तत्पुण्यमिति, मैवंस्वर्गोपपादकं ह्यपूर्व्वं स्वर्गाश्रये कल्पते प्रधवोपस्थिति-कत्वेन लाघवात् कल्पनायाः साक्षादुपपादकविषयत्वाच्च ।न च स्वर्गहेतुकामनाश्रये, स्वर्गकामनाजन्यब्रियाकर्त्तरि वा, विलम्बोपस्थितिकत्वात् गौरवात् परम्परया स्वर्गोपपा-दकवाच्च वदि च पुत्रकृतपुण्येन मुक्तस्य शरीराद्युत्पत्तिःसुखं वा श्यात्, तदा साक्षिविषयाऽसत्याभिधानादि पुत्र-क्रिंयाजन्यपापेन “स विष्ठायां कृमिर्भूत्वा पितृभिः सहपच्येत” इत्यादिबोधितं नरकभागितादि मुक्तस्य पितुः स्यात्तथा च पुत्रकृततथाविधशङ्कया न कश्चिन्मोक्षार्थी व्रह्म-चर्य्यादिदुःखेनात्मानमवसादयेत् “दुःखेनात्यन्तविमुक्तश्चरतीति”“न स पुनरावर्त्तत” इति श्रुतिविरोधश्च तथा च मुक्तस्य सुख-दुःख शरीरादिकञ्च भवतीत्यपदर्शनम् । मुक्ते च पितरि श्राद्धा-दिना दोषाभावादेव नादृष्टमुत्पद्यते न चैवं साङ्गश्राद्धस्यापिनित्यफलत्वम् अदृष्टोत्पत्तौ स्वरूपसतो दोषस्याङ्गस्य वैगुण्यात्, यथा विव्नहेतुदुरितशून्ये न कृतं मङ्गलं न पापध्वंसं जन-यति स्वरूपसतः पापस्याङ्गस्याभावादिति एवञ्च यागस्यापिव्यधिकरणव्यापारोभविष्यतीति ॥
उच्यते विहितक्रिययाकर्त्तृगतव्यापारद्वारा कालान्तरे फलं जन्यत इत्युत्सर्गः स चबलवता बाधकेनापोद्यते प्रकृते च बाधकं नास्ति यथा शास्त्र-देशितं फलमनुष्ठातरीत्युत्सर्गः सुतकृतगयाश्राद्धस्य पितृस्वर्गंप्रति, पितृकृतजातेदेः पुत्रपूतत्वादिकं प्रति हेतुत्वस्य शास्त्रेणबेधनात् नन्वयंनियमएव पितृयज्ञजानेष्ट्यादौ परम्परासम्ब-न्धेन कर्त्तृगतमेव फलं, न हि यस्य कस्यापि पितरिपुत्रेवा फलं किन्तु स्वपितृपुत्रयोः तथा च स्वपितृगतत्वं स्वर्गभागिपितृकत्वं परम्परासम्बन्धः फलेन पुत्रस्य, एवं पूतत्वादिकंपितृगतमेव । न च फलस्य कर्त्तृगतत्वं साक्षात्सम्बन्धेनैवेति वाच्यं ग्रामपशुभूमिहिरण्यादीनां परम्परया कर्तृ-गतत्वमिति व्यभिचारात् न हि ग्रामादयः कर्त्तरि साक्षात्-संबद्धाः । एवं फलस्य साक्षात्कर्त्तृगामित्वबोधने शास्त्रस्योत्-सर्गो न तु फलस्य कर्त्तृगामिताबोधने यत्तु स्वर्गभागिपितृ-कत्वं न फलं तत्कामनाया अधिकारिविशेषणत्वाभावात्‘पितृस्वर्गकाम’ इत्यादि श्रुतेः स्वतश्च तथा कामनया प्रवृत्तौफलकामनाविरहेण प्रयोगेऽङ्गवैगुण्टात् फलाभावप्रसङ्गः ।किञ्च स्वर्गभागिपितृकत्वं विशिष्टं तत्र विशेष्यं तत्पितृकत्वंन काम्यम् न वा फलं, सिद्धत्वात् तदसाध्यत्वाच्च, किन्तुविशेषणं पितृगतः स्वर्ग इति सएव फलमिति” तन्न न हिस्वर्गभागिपितृकत्वं फलम् अपि तु स्वर्गेण समं पुत्रस्यपरम्परासम्बन्धरूपं तदुक्तमिति । उच्यते परम्परासम्बन्धेनयदि पुत्रगतत्वं पितृस्वर्गस्य, तदा संयुक्तसमवायेन तत्-पुत्रधनस्यापि फलावं स्यात् । सम्बन्थः शास्त्रेण बोध्यतइति चेत् तदा स्वर्गमागिपितृकत्यमपि न तथा, शास्त्रेणबोधितत्वाभावात् ग्रामादिपिशुत्तिरण्यादीनाञ्च सिद्धत्वेनन काम्यत्यं किन्तु तद्विषयकं खत्वं काम्यं फलमपिकार्म्य तदेव, तच्च साक्षात्कर्तृगतमिति कर्त्तगतत्वेनफलस्य साक्षात्सम्बन्धोऽपि नियत एव तत्स्वत्वेन फलेकामनात् । तस्मात् यथागममेव शास्त्रदेशितं फलम्अतएव कामनाविषयः स्वगत एव स्वर्गः फलं यागादेः, स्वर्ग-पूतचादेश्च पितृपुत्रगतत्वेन काम्यत्वमिति श्राद्धजातेष्ट्यादेःपितृपुत्रगतमेव फलम् एवञ्च मातापित्रांदिगतस्वर्गकामनयापुत्रादिना कृतं पुष्करिणीमहादानादिकं पित्रादिस्वर्गजनक-मेव कामनाविषयस्वर्गसाधनत्वेन तेषां श्रुतत्वात् न हिस्वगतस्वर्गकामस्य कर्त्तव्यतां पुष्करिण्यादेर्विधिर्बोधयतिकिन्तु स्वर्गकामस्य स्वर्गः स्वगतः परगतो वेति स्वर्ग-कामत्वमविशिष्टम् । यजेतेत्यात्मनेपदमपि कर्त्रभिप्रेत-क्रियाफलमात्रजनकत्वे । न च स्वर्गकामोयजेतेत्यादौस्वगतस्वर्गकामनाया अन्तरङ्गत्वादौत्सर्गिकत्वाच्च स्वर्गकाम-त्वेन स्वगतस्वर्गकाम एवीच्यते । सामान्ये बाधकं विनाविशेषपरत्वे मानाभावात् । केचित्तु सम्यग्गृहस्थाश्रमपरि-पालनस्य ब्रह्मलोकावाप्तिः फलं श्रूयते इति जातेष्टिपितृ-यज्ञयोरपि गृहस्थकर्म्मत्वेन तदेव फलमिति फलस्यकर्त्तृगामित्वेनियमएव प्रातिस्विकफलाभिप्रायेणोत्सर्गःइत्याहुः ननु यावन्नित्यपरिपालनस्य तत् फलं न तु काम्य-श्राद्धादेः काम्यान्तर्भावे मानाभावात् यावत्काम्यानुष्ठाना-शक्तेश्च, यावच्छक्यानुष्ठानस्यापि नान्तर्भावः कामनाविरहा-दिनाप्यकरणात् यावन्नित्यानुष्ठाने तत्फलाभावप्रसङ्गान्नित्य-स्यैवावश्यकत्वेनोपस्थित्यान्वयाच्च । अपि च तैः कर्म्मभिःप्रत्येकमुत्पत्त्यपूर्व्वंतैश्च परमापूर्व्वं जन्यत इति” न गौरवात्मानाभावाच्च कित्त्वन्तिमक्रियया परिपालनरूपक्रियान्तरेणवेति न सर्व्वं कर्म्म ब्रह्मलोकावाप्तिफलकमिति” मैवं भगब-दुद्देशेन कृतस्य नित्यस्य यस्य कस्यापि पालनात् ब्रह्मलोकप्राप्तिःफलं श्रूयत इति जातेष्टिपितृयज्ञयोरपि तथा कृतयोस्तदेवफलं तथा च श्रीभगवद्गीता “यज्ञायाचरतः कर्म्म कर्म्म-ग्रन्थिर्निलीयते यज्ञार्थात् कर्म्मणोऽन्यत्र लोकोऽयं कर्म्म-बन्धन” इति तच्च कर्म्म यज्ञार्थतया प्रत्येकमेव तत्फलसमर्थंफलसम्बन्धे, संवलनन्तु मङ्गलवदुपयुज्यते अन्यथैकप्रयोगस्यव्यवधानादसम्भवः । परिपालनन्तु कर्त्तव्यमित्येव करणंतदुक्तं “ददामि देयमित्येव यजे यष्टव्यमित्यहमिति” यत्तुनिषिद्धासम्बन्धएव सम्यक्त्वम् न तु विहितसात्रानुष्ठानमिति, तन्न वत्किञ्चिन्निषिद्धासम्बन्धस्याभावात्, सर्वनिषिद्धासम्बन्धस्यसर्वत्र सुलभत्वादिति सम्प्रदायः । अत्र ब्रूमः भगवदुद्देशेनकृतं किञ्चिदेव कर्म्म, सर्वं वा, काम्यं वा सर्वं, नित्यं वासर्वमिति नाद्यः एकेनैव काम्येन नित्येन वा स्नानेन तथाकृतेन तत्फलसिद्धौ बहुवित्तादिसाध्ये श्राद्धादावप्रवृत्त्या-पत्तेः नापरौ अशक्यत्वात् न तुर्य्यः जातेष्ठ्यादेर्नित्यत्वा-भावात् तस्मात् सम्यग्गृहस्थाश्रमपालनस्य न तत्फलं स-म्यक्त्वञ्च सामस्त्यमेव अतो न श्राद्धादेः ब्रह्मलोकावाप्तिरितिसाधूक्तं शास्त्रदेशितं फलमनुष्ठातरीत्युत्सर्ग इति तच्च फलंक्वचिद्विधिवाक्यश्रुतं क्वविच्चार्थवादिकमिति” । इदन्त्ववधेयंकर्मध्वंसेनापूर्बप्रत्याख्याने “ज्ञानाग्निः सर्वकर्माणीत्यादिशास्त्रबोधितस्य तत्त्वज्ञाननाश्यत्वस्य बाधः ध्वंसस्य नाश्य-त्वाभावात् न्यायमते तु कर्मपदेन तज्जन्यापूर्बलक्षणयातेषां क्षयसम्भव इति । अस्य च कार्य्यमात्रं प्रति कारणतेति नैयायिकादयः । कर्मण एव फलमिति मीमांसकाः ।ईश्वराधिष्ठितादेव सूक्ष्मवस्थापन्नात् कर्मणः फलमिति वेदा-न्तिनः तथा हि “फलमत उपपत्तेरिति” शा० सू० भाष्ये“अथोच्येत कर्म्मकार्य्यादपूर्व्वात् फलमुत्पत्स्यते” इत्याशङ्क्य ।तदपि नोपपद्यते अपूर्व्वस्याचेतनस्य काष्ठलोष्टसमस्य चेतना-प्रवर्त्तितस्य प्रवृत्त्यनुपपत्तेः तदस्तित्वे च प्रमाणाभावात् अर्था-पत्तिः प्रमाणमिति चेन्न ईश्वरसिद्धेरर्थापत्तिपरिक्षयादिति”अपूर्व्वं निराकृत्य । “धर्म्मं जैमिनिरतएवेति” शा० सू० ।जैमिनिमतं धर्म्मस्यैव फलहेतुत्वं पूर्व्वपक्षीकृत्य । “पूर्व्वन्तुवादरायणो हेतुव्यपदेशादिति” शा० सू० निराकृतम् ।व्याख्यातञ्चैतत् भाष्यकृता शङ्कराचार्य्येण । नन्वनुक्षण-विनाशिनः कर्म्मणः फलं नोपपद्यते इति परित्यक्तोऽयं पक्षःनैष दोषः श्रुतिप्रामाण्यात् श्रुतिश्चेत् प्रमाणं यथायं कर्म्म-फलसम्बन्धः श्रुत एव उपपद्यते तथा कल्पयितव्यः नचानुत्पाद्य किप्यपूर्व्वं कर्म्म विनश्यत् कालान्तरितं फलंदातुं शक्नोतीति अतः कर्मणो वा काचिदुत्तरावस्था फलस्यवा पूर्व्वावस्थाऽपूर्व्वं नामास्तीति च तर्क्यते । उपपद्यते चाय-मर्थ उक्तेन प्रकारेण ईश्वरस्तु फलं ददातीत्यनुपपन्नम् ।अविचित्रस्य कारणस्य विचित्रकार्य्यानुपपत्तेः वैषम्यनिर्घृण्य-प्रसङ्गादनुष्ठानवैयर्थ्यापत्तेश्च तथा च धर्मत एव फलमिति“पूर्व्वपक्षः” वादारायणस्तु आचार्य्यः पूर्व्वोक्तमेवेश्वरं फल-हेतुं मन्यते केवलात् कर्म्मणोऽपूर्व्वाद्वा केवलात् फलमित्ययं-पक्षः तुशब्देन व्यावर्त्त्यते कर्मापेक्षाद्वाऽपूर्व्वापेक्षाद्वा यथातथा वा ईश्वरात् फलमिति सिद्धान्तः “हेतुव्यपदेशात्”धर्म्माधर्मयोरपि कारयितृत्वेनेश्वरोहेत्तुर्व्यपदिश्यते फल-दातृतया च । “एष ह्येव साधु कर्म कारयति तं यमेभ्यउन्निनीषते एष उ एवासाधु कर्म कारयति तं यमघो-निनीषते” इति स्मर्य्यते चायमर्थो गीतासु । “यो योयां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति तस्य तस्याचलांश्रद्धां तामेव विदधाम्यहम् । स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान् मयैव विहि-तान् हि तान् इति” । विचित्रकार्य्यानुपपत्त्यादयोऽपिदोषाः कृतप्रयत्नापेक्षत्वादीश्वरस्य न प्रसज्यन्ते” इति ।एतेन “नमस्तत् कर्मभ्योविधिरपि न येभ्यः प्रभवतीत्युक्तिस्तुप्रामादिकीत्यवसेयम् एवञ्च ईश्वराधिष्ठितकर्मभ्य एव तत्तत्-फलोत्पत्तिरिति सुस्थम् । कर्मणामाशुविनाशिनामपि सूक्ष्म-रूपेणैव स्वकारणेऽन्तः करणे सत्त्वात् “क्षीयन्ते चास्य कर्म्माणि”इत्याद्युक्तिः सङ्गच्छते तज्जन्यापूर्व्वस्वीकारे तु तत्र तज्जन्येलक्षणेति भेदः । अतएव “ज्ञानाग्निः सर्वकर्म्माणीत्यादौ सू-क्ष्मावस्थानां ज्ञानादेव क्षयः, स्थूलावस्थापन्नानान्तु आशु-नाशात्” इति वेदान्तिमते युक्तिरूहनीया । “आत्मान्तरगुणा-नामात्मान्तरेऽकारणत्वादिति” वै० सू० “आत्मान्तरस्य गुणानांपुण्यपापानामात्मान्तरेऽकारणत्वात् स्वर्गफलस्येति शेषः ।“शास्त्रदेशितं फलममुष्ठातरीति” जै० सू० । “आत्मान्तरेयौ दुखदुःखगुणौ तयोरकारणत्वात् प्रत्यात्मनिष्ठाभ्यामेवधर्म्माधर्माभ्यां सुखदुःखे, न व्यधिकरणाभ्याम् । अन्यथायेन यागहिंसादिकं न कृतं तस्य तत्फलं स्यादिति कृत-हानिरकृताभ्यागमश्च प्रसज्येतेति” एतच्च सामान्यशास्त्रं विशे-षणास्त्रेणापोद्यते तेन पितृयज्ञादेः पुत्रपूतत्वादिहेतुत्वमिति”वै० सू० उपस्करः । तच्चापूर्व्वं त्रिविधं प्रधानापूर्व्व-मङ्गापूर्बं कलिकापूर्बञ्चेति मीमांसकाः । तत्र दर्शपौर्ण-मासाद्यपूर्बं प्रधानापूर्बं तदेव परमापूर्बं, प्रयाजाद्यङ्गजन्या-पूर्बमङ्गापूर्बं, तदवान्तरक्रियाकूटजन्यमपूर्बं कलिकापूर्बं तच्चव्रीहिप्रोक्षणाभ्युक्षणादिजन्य द्रव्यनिष्टमिति मीमांसवाःतज्जन्यसंस्कारविशेष एव कलिकापूर्व्वतया व्यवहियतेस चात्मनिष्ठ इति नैयायिकाः विस्तरस्तु कुसुमाञ्चलौ१ स्ताके दृश्यः । कलिकापूर्बञ्च परमापूर्बं जनयित्वानश्यति । अङ्गापूर्बैस्तु परमापूर्बे विशेष आधीयते इतिभेदः तथा च अङ्गापूर्बसहितं परमापूर्बं विशिष्टफलं जन-यति तद्विहीनन्तु स्वल्पं फलम् । अत एव प्रधानकरणेदैवात् शक्याङ्गाकरणे न प्रधानस्य वैफल्यं किन्तु अल्प-फलत्वमेवेति सिद्धान्तः । केवलाङ्गापूर्बाणां तु न फलजनकत्वम् प्रधानासिद्धेः फलाभावात् । अतएव “प्रधानस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः । अप्रधानाक्रियायान्तुनावृत्तिर्न च तत्क्रियेति” छन्दोगपरिशिष्टे तथा व्यव-स्थापितम् । इदञ्च परमापूर्बं फलनाश्यं तत्त्वज्ञाननाश्यंकर्मनाशाजलस्पर्शादिनाश्यञ्च । “नाभुक्तं क्षीयते कर्मकल्पकोटिशतैरपि अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभ-मिति” “कर्मणाञ्चैव सर्वेषां भोगादेव क्षयोभवेदिति” चशास्त्रात् “ज्ञानाग्निः सर्वकर्म्माणि भस्मसात् कुरुते-ऽर्ज्जुनेति” गीतावाक्याच्च । सर्वकर्मपदेन च प्रारब्धकर्म्मा-तिरिक्तकर्म्माण्येबोच्यन्ते तेन प्रारब्धकर्मणां भोगा-देव क्षय इत्यनुपदं वक्ष्यते । परमापूर्बञ्च नित्यकर्मणिपण्डापूर्बत्वेन मीमांसकैः व्यवह्रियते सन्ध्याबन्धनस्यकिञ्चित्फलाजनकत्वात् । अर्थवादोपस्थापितब्रह्मलोकादिप्राप्तिरूपफलजननात् न तत्रापूर्बस्य फलाजनकत्वेनपण्डत्वमिति नैयायिकाः । अत एव चिन्तामणौ यत्रार्थ-वादिकं फलं न श्रूयते तत्र तत्त्वज्ञामसाधनत्वंगीतादिवाक्येन व्यवस्थापितं तच्च पूर्बं दर्शितम् । “न कलञ्जंभक्षयेदित्यादि निषेधस्यापि पण्डापूर्बजनकत्वमिति मीमां-सकाः । तत्रापि प्रत्ययाभावरूपफलाङ्गीकारान्न पण्डत्व-मिति तत्त्वज्ञानप्रतिबन्धकाभावत्वेन तस्यापीष्टत्वादितिनैयायिकाः । अपूर्बस्यापूर्बशब्दवाच्यत्वे हेतुर्जैमिनिनादर्शितः । “प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात्”सूत्रेण व्याख्यातञ्चैतत् अदृष्टशब्दे ११६ पृष्ठे ततश्चपूर्बमविद्यमानत्वात् अपूर्बशब्दवाच्यतेति । वेदान्तिनस्तुकर्म्मणः सूक्ष्मावस्था, फलस्य पूर्व्वावस्था वाऽपूर्वमिति स्वीचक्रुःतच्चानुपदं दर्शितम् । तत्त्वज्ञानेन कर्मक्षये कश्चिद्विशेषोऽभि-धीयते । “तदधिगमे उत्तरपूर्व्वाघयोरश्लेषविनाशौ तद्व्य-पदेशात्” शा० सू० भाष्ये “अथेदानीं ब्रह्मविद्या-फलं प्रति चिन्ता प्रजायते ब्रह्माधिगमे सति तद्विपरीत-फलं दुरितं क्षीयते न वा क्षीयत इति संशयः किन्तावत्प्राप्तं फलहेतुत्वात् कर्म्मणः फलमदत्त्वा न सम्भाव्यतेक्षयः । फलदायिनी ह्यस्य शक्तिः श्रुत्या समधिगता यदितदन्तरेणैव फलोपभोगमुपमृद्येत, श्रुतिः कदर्थिता स्यात् ।स्मरन्ति च “नहि कर्म्म क्षीयत” इति । नन्वेवं सतिप्रायश्चित्तोपदेशोनिरर्थकः प्राप्नोति । नैष दोषः प्राय-श्चित्तानां नैमित्तिकत्वोपपत्तेर्गृहेष्ट्यादिवत् । अपि च प्राय-श्चित्तानां दोषसंयोगेन विधानात् भवेदपि दोषक्षपणार्थतानत्वेवं ब्रह्मविद्यायाविघानमस्ति । नन्वनभ्युपगम्यमानेब्रह्मविदः कर्म्मक्षये, तत्फलस्यावश्यभोक्तव्यत्वादनिर्म्मोक्षःस्यात् । नेत्युच्यते । देशकालनिमित्तापेक्षोमोक्षः कर्म्मफलवद्भविष्यति । तस्मान्न ब्रह्मविद्याधिगमे दुरितनिवृत्तिरित्येवंप्राप्ते ब्रूमः । तदधिगमे ब्रह्माधिगमे सत्युत्तरपूर्व्वाघयोर-श्लेषविनाशौ भवतः उत्तरस्याश्लेषः पूर्बस्य विनाशः ।कस्मात्? तद्व्यपदेशात् । तथा हि ब्रह्मविद्याप्रक्रियायांसम्भाव्यमानसम्बन्धस्यागामिनो दुरितस्यानभिसम्बन्धं विदुषो-व्यपदिशति श्रुतौ “यथा पुष्करपलाश आपो न श्लिष्यन्त एव-मेवंविदि पापं कर्म्म न श्लिष्यत” इति । तथा विनाशमपि०पूर्व्वोपचितस्य दुरितस्य व्यपदिशति “तद् यथेषीकातूलमग्नौप्रोतं प्रदूयेतैवं हास्य सर्बे पाप्मानः प्रदूयन्त” इति ।अयमपरः कर्मक्षयव्यपदेशो भवति । “भिद्यते हृदयग्रन्थि-श्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्म्माणि तस्मिन् दृष्टे-परावरे” इति । यदुक्तमनुपमुक्तफलस्य कर्मणः क्षयकल्प-नायां शास्त्रकदर्यनं स्यादिति । नैष दोषः न हि वयंकर्मणः फलदायिनींशक्तिमवजानीमहे विद्यत एव सा, सातु विद्यादिना कारणान्तरेण प्रतिबध्यत इति वदामः । शक्ति-सद्भावमात्रे च शास्त्रं व्याप्रियेत न प्रतिबन्धाभावेऽपि । “नहि कर्म क्षीयत” इत्येतदपि स्मरणमौत्सर्गिकं न भोगादृतेकर्म क्षीयते तदर्थत्वादिति इष्यत एव प्रायश्चित्तादिना तस्यक्षयः । “सर्वं पाप्मानन्तरति तरति ब्रह्महत्यां योऽश्वमेधेनयजते य उ वैनमेवं वेदेत्यादिश्रुतिस्मृतिभ्यः । यत्तूक्तंनैमित्तिकानि प्रायश्चित्तानि क्षपयिष्यन्तीति तदसत् दोष-संयोगेन नोद्यमानानामेषां दोषनिह्नुतिफलान्तरकल्प-नानुपपत्तेः । यत् पुनरुक्तं न प्रायश्चित्तवद्दोषक्षयोद्देशेनविद्याविधानमस्तेत्यत्र ब्रूमः । सगुणासु तावद्विद्यासु विद्यतएव विधानं तासु च वाक्यशेषे ऐश्वर्य्यप्राप्तिः पापनिवृत्तिश्चविद्यावत उच्यते । तत्राविवक्षाकारणं नास्तीत्यतःपाप्मप्रहाणपूर्बकैश्वर्य्यप्राप्तिस्तासां फलमिति निश्चीयते ।निर्गुणायान्तु विद्यायां यद्यपि विधानं नास्ति तथाप्य-कर्त्रात्मबोधात् कर्मप्रदाहसिद्धिः । अश्लेष इति चागामिषु-कर्मसु कर्त्तृत्वमेव न प्रतिपद्यते ब्रह्मविदिति दर्शयति ।अतिक्रान्तेषु तु यद्यपि मिथ्याज्ञानात् कर्तृत्वं प्रतिपेद इवतथापि विद्यासामर्थ्यान्मिथ्याज्ञाननिवृत्तेस्तान्यपि प्रली-यन्त इत्याह विनाश इति । पूर्वप्रसिद्धकर्तृत्वभोक्तृत्वविपरीतंहि त्रिष्वपि कालेष्वकर्तृत्वामोक्तृत्वरूपं ब्रह्माहमस्मि नेतःपूर्बमपि कर्त्ता भोक्ता वाहमासं नेदानीं” नापि भविष्यतिकाल इति ब्रह्मविदवगच्छति । एवमेव च मोक्ष उपपद्यतेअन्यथा ह्यनादिकालप्रवृत्तातां कर्मणां क्षयाभावे मोक्षाभावःस्यात् । न च देशकालनिमित्तापेक्षोमोक्षः कर्मफलवद्भवितुमर्हति अनित्यवप्रसङ्गात् परोक्षत्वानुपपत्तेश्चज्ञानफलस्य । तस्माद्ब्रह्माधिगमे दुरितक्षय इति स्थितम् ॥
“इतरस्याप्येवमसंश्लेषः पाते तु” शा० सू० ॥
“पूर्बस्मिन्नधि-करणे बन्धहेतोरघस्याश्लेषविनाशौ ज्ञाननिमित्तौ शास्त्र-व्यपदेशान्निरूपितौ धर्मस्य पुनः शास्त्रीयत्वाच्छास्त्रीयैणज्ञानेन विरोध इत्याशङ्क्य तन्निराकरणाय पूर्व्वाधिकरण-न्यायातिदेशः क्रियते । इतरस्यापि पुण्यस्य कर्मण एवमघवदसंश्लेषोविनाशश्च ज्ञानवतो भवतः । कुतः? तस्यापि स्वफल-हेतुत्वे ज्ञानफलप्रतिबन्धित्वप्रसङ्गात् “उभे उ हैवैषएतेन तरतीत्यादि” श्रुतिषु च दुष्कृतवत् सुकृतस्यापि प्रणा-शव्यपदेशात् अकर्त्रात्मबोधनिमित्तस्य कर्मक्षयस्य सुकृतदुष्कृतयीस्तुल्यत्वात् । “क्षीयन्ते चास्य कर्म्माणि इति चाऽविशेषश्रुतेः । यत्रापि केवलएव पाप्मशब्दः पठ्यतेतत्रापि तेनैव पुण्यमप्याकलितमिति द्रष्टव्यं ज्ञानापेक्षया-निकृष्टफलत्वात् । अस्ति च श्रुतौ पुण्येऽपि पाप्मशब्दः “नैनंसेतुमहोरात्रे प्रतते तरत” इत्यत्र सह दुष्कृतेन सुकृतमप्य-नुक्रम्य “सर्वे पाप्मानोऽतोनिवर्त्तन्त” इत्यविशेषेणैव प्रततेषुपाप्मशब्दप्रयोगात् । पाते त्विति । तुशब्दोऽवघारणार्थः ।एवं धर्म्माधर्म्मयोबन्धहेत्वोर्विद्यासामर्थ्यादश्लेषविनाशसिद्धे-रवश्यं भाविनी विदुषः शरीरपाते मुक्तिरित्यवधारयति“अनारव्वकर्य्ये एव तु पूर्बे तदवधेः शा० सू० ॥
“पूर्बयोरधिकरणयोर्ज्ञाननिमित्तः सुकृतदुष्कृतयोर्विनाशो-ऽवधारितः स किमविशेषेणारब्धकार्य्ययोश्च भवत्युत विशे-षेणानारव्वकार्य्ययोरेवेति विचार्यते तत्र” “उभे उहैवैष एतेनतरतीत्येवमादि” श्रुतिष्वविशेषश्रवणादविशेषेणैव क्षय इत्येवंप्राप्ते प्रत्याह अनारव्वकार्ये एव त्विति । अप्रवृत्ति-फले एव पूर्बजन्मान्तरसञ्चिते अस्मिन्नपि च जन्मनि प्राक् चज्ञानोत्पत्तेः सञ्चिते सुकृतदुष्कृते ज्ञानाधिगमात् क्षीयेतेन त्वारब्धकार्ये सामिभुक्तफले, याभ्यामेतद्ब्रह्मज्ञानायतनजन्म निर्म्मितम् । कुत एतत्? “तस्य तावदेव चिरं यावन्नविमोक्षैति शरीरपातावघिकरणात् क्षेमप्राप्तेः । इतरथाहि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावात् ज्ञानप्राप्त्यनन्तरमेव क्षेममश्नुवीत तत्र शरीरपातप्रतीक्षां नाच-क्षीत । ननु वस्तुबलेनैवायमकर्त्रात्मबोधः कर्म्माणि क्षप-यन् कथं कानिचित् क्षपयेत् कानिचिच्चोपेक्षेत न हिसमाने ह्यग्निवीजसम्पर्के केषाञ्चिद्वीजशक्तिः क्षीयते केषा-ञ्चिन्न क्षीयते इति शक्यमङ्गीकर्त्तुमिति । उच्यते । नतावदनाश्रित्यारब्धकार्यकर्म्माशयं ज्ञानोत्पत्तिरुपपद्यतेआश्रिते च तस्मिन् कुलालचक्रवत् प्रवृत्तवेगस्यान्तरालेप्रतिबन्धासम्भवाद्भवति वेगक्षयप्रतिपालनम् । अकर्त्रात्म-बोधोऽपि हि मिथ्याज्ञानबाधनेन कर्माण्युच्छिनत्ति ।बाघितमपि मिथ्याज्ञानं द्विचन्द्रज्ञानवत् संस्कारवशात्कञ्चित् कालमनुवर्त्तत एव । अपि च नैवात्र विवदितव्यंब्रह्मविदः कञ्चित् कालं शरीरं ध्रियते न ध्रियते वाइति । कथं ह्येकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देह-धारणञ्चापरेण प्रतिक्षेप्तुं शक्येत? श्रुतिस्मृतिषु चस्थतप्रज्ञलक्षणनिर्द्देशेनैतदेव निरुच्यते । तस्मादनारब्ध-कर्ययोरेव सुकृतदुष्कृतयोर्विद्यासामर्थ्यात् क्षय” इति भा० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
