| YouTube Channel

अपुष्पफलदः (apuSpaphaladaH)

 
E Bharati Sampat
Sanskrit
(पुं) अपुष्पं पुष्पाभावेऽपि फलं ददाति अपुष्पफल+डु दाञ्(दाने)+कः। ‘आतो०कः’ ३.२.३। १.पुष्पं विना फलदः पनसवृक्षः। २.उदुम्बरवृक्षः। (वि) अहेतुकफलदाता
शब्दकल्पद्रुमः
Sanskrit
अपुष्पफलदः,
पुं,
(अपुष्पं, पुष्पं विना फलं ददाति, अपुष्पफल + दा + कर्त्तरि कः, उपपदसमासः
)पनसवृक्षः इति राजनिर्घण्टः
पुष्पव्यतिरेक-जातफलवृक्षमात्रं
(अहेतुकफलदातरि त्रिं)