| YouTube Channel

अपावृत्तः (apAvRttaH)

 
E Bharati Sampat
Sanskrit
(वि) अप+आ+वृतु(वर्तने)+क्तः। ‘गत्यर्थाकर्मक०’ ३.४.७२। १.लुठितः, वेल्लितः। ‘अपावृत्तपरावृत्तलुठितानि तु वेल्लिते’ हैमः। २.अन्तरितः, आच्छादितः। ३.निवृत्तः। ‘प्रतिग्रहादपावृत्तः सन्तुष्टो येन केनचित्’ महाभा०। ४.परावृत्तः, पराङ्मुखः। ‘पुरः सूर्यादपावृत्तः छायामिव महातरुः’ किरा०१५.३३।