| YouTube Channel

अपार्थकः (apArthakaH)

 
E Bharati Sampat
Sanskrit
(वि) अपगतः अर्थः यस्य अपार्थ+कप् ‘शेषाद्विभाषा’ ५.४.१५४। १.व्यर्थः, निष्प्रयोजनः। ‘स्वभावेनैव यद् ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् अतो यदन्यद् विब्रूयुर्धर्मार्थं तदपार्थकम्’ मनुः८.७८। (न) २.योग्यताकाङ्क्षासत्तिशून्यं वाक्यम् ‘पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम्’ गौतमः।