| YouTube Channel

अपादानं (apAdAnaM)

 
Apte 1890
English
अपादानं 1 Taking away, removal
ablation
a thing from which another is removed.
2 (In gram.) The sense of the ablative case
ध्रुवमपायेऽपादानं P. I. 4. 24
अपादाने पंचमी II. 3. 28
अपाये यदुदासीनं चलं वा यदि वाऽचलं ध्रुवमेव तदावेशात्तदपादानमुच्यते Hariv.
अपादान is of three kinds: -निर्दिष्टविषयं किंचिदुपात्तविषयं तथा अपेक्षितक्रियं चेति त्रिधापादानमिष्यते e. g. वृक्षात् पत्रं पतति, मेघाद्विद्योतते विद्युत्, & कुतो भवान्.
शब्दकल्पद्रुमः
Sanskrit
अपादानं,
क्ली,
(अपादीयते विश्लिष्यतेऽस्मात्, अप +आ + दा + ल्युट् ।) यस्माद्वस्तुनो वस्त्वन्तरस्य चलनंभवति तत् षट्कारकमध्ये पञ्चमकारकं तत्रै-कादशार्थे पञ्चमी स्यात् यथा यतोऽपायः यथावृक्षात् पर्णं पतति यतो भीः यथा व्याघ्रात्बिभेति यतो जुगुप्सा यथा पापात् जुगु-प्सते धीरः यतः पराजयः यथा सिंहात्पराजयते हस्ती यतः प्रमादः यथा धर्म्मात्प्रमाद्यति नीचः यत आदानं यथा भूपात्धनमादत्ते विप्रः यतो भूः यथा पितुःपुत्त्रो जायते यतस्त्राणं यथा व्याघ्रात् गांरक्षति गोपः यतो विरामः यथा जपाद्विर-मति विप्रः यतोऽन्तर्द्धिः यथा गुरोरन्तर्द्धत्तेशिष्यः १० यतो वारणं यथा यवेभ्यो गांवारयति ११ इति मुग्धबोधटीकायां दुर्गा-दासः