| YouTube Channel

अपाचीनः (apAcInaH)

 
E Bharati Sampat
Sanskrit
(वि) अपाच्यां दक्षिणस्यां भवः। अपाची+खः। ‘विभाषाञ्चेरदिक्स्त्रियाम्’ ५.४.८। १.दक्षिणदिग्भवः, अवाक् २.पश्चिमदिग्भवः। ३.पृष्ठतः स्थितः। ४.अप्रकाशमानः। ‘योह्यपाचीने तमसि मदन्तीः’ ऋक् ७.६.४। ५.विपर्यस्तः, विपरीतः। ‘अपाचीनमवागर्थे विपर्यस्ते च’ मेदिनी