| YouTube Channel

अपहारकः (apahArakaH)

 
E Bharati Sampat
Sanskrit
(वि) अपहरति अप+हृञ्(हरणे)+ण्वुल् ‘ण्वुल्तृचौ’ ३.१.१३३। १.चोरः। ‘द्विविधांस्तस्करान् विद्यात् परद्रव्यापहारकान् प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः’ मनुः९.१५६। २.अपसारणकर्ता ३.सङ्गोपकः। ४.स्थानान्तरापकर्षकः। ‘जालापहारकान् पक्षिणः’ हितो०। ५.नाशकः।
Wordnet
Sanskrit
Synonyms:
अपहारकः, अपहर्ता, अपहारी
noun
यः व्ययशीलः अस्ति।
"केनचित् अपहर्त्रा स्वस्य धनं व्ययितम्।"
Synonyms:
अपहारकः, अपहारी
noun
यः अपहरति।
"आरक्षकैः सह जातेन दण्डादण्ड्याम् अपहारकः मृतः।"
Synonyms:
अपहारकः, अपहर्ता, अपहारी
noun
यः अन्यस्य धनादीन् हरति।
"अपहारकेण बसयानं लुण्ठितम्।"
Synonyms:
अधःचरः, अपहारकः, अपहारिका, अपहारकम्, अवहारः, अवावन्, अवावरी, आखनिकः, आखुः, आमोषी, आमोषि, कपाटघ्नः, कपाटघ्ना, कपाटघ्नम्, कम्बू, कलमः, कवाटघ्नः, कुम्भीरकः, कुसुमालः, खर्परः, चोरः, चौरः, चोरी, चोरकः, चौरी, चौरिका, तः, तक्वान्, तस्करः, तायु, तृपुः, दस्मः, दस्मा, दस्रः, द्रावकः, धनहरः, धनहृत्, धनहृद्, नक्तचारिः, नक्तचारी, नागरकः, परास्कन्दी, परास्कन्दि, परिमोषी, परिमोषिः, पटच्चरः, पाट्टचरः, पुरंदरः, प्रचुरः., प्रचुरपुरुषः, प्रतिरोधकः, प्रतिरोधी, बन्दीकारः, मलिम्लुः, मलिम्लुच्, मल्लीकर, माचलः, मीढुष्तमः, मुमुषिषुः, मुष्कः, मूषकः, मोषः, मोषकः, मोष्टा, रजनीचरः, रात्रिचरः, रात्र्याटः, रिक्वान्, रितक्वान्, रिभ्वान्, रिहायः, रेरिहाणः, लटः, लुण्टाकः, वटरः, वनर्गुः, विलोडकः, विलोप्ता, स्तेनः, स्तैन्यः, स्तायुः, स्तेयकृत्, स्तेयकृद्, स्तेयी, स्तौनः, स्त्येनः, स्त्यैनः, स्रोतस्यः, हरिकः, हर्ता, हारकः, हारीतः
noun
अदत्स्य परधनस्य अपहारकः।
"रक्षकः चोरान् दण्डयति।"
शब्दकल्पद्रुमः
Sanskrit
अपहारकः, त्रि, (अप + हृ + ण्वुल् ।) अपहारी ।अपहरणकर्त्ता यथा, --“परापवादनिरतः परद्रव्यापहारकः” ।इति पुराणं
(“द्विविधान् तस्करान् विद्यात् परद्रव्यापहारकान्प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः”
“अन्नहर्त्तामयावित्वं मौक्यं वागपहारकः ।वस्त्रापहारकः श्वैत्रं पङ्गुतामश्वहारकः”
इति मनुः चौरः ।“योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते ।स पापकृत्तमोलोके स्वेन आत्मापहारकः” ।इति मनुः ।)