| YouTube Channel

अपविद्धपुत्रः (apaviddhaputraH)

 
E Bharati Sampat
Sanskrit
(पुं) द्वादशविधपुत्रेषु पुत्रभेदः। ‘मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा यं पुत्रं परिगृह्णीयादपविद्धः उच्यते ॥’ मनुः ९.१७१
शब्दकल्पद्रुमः
Sanskrit
अपविद्धपुत्रः,
पुं,
(अपविद्धः पुत्त्रः, कर्म्मधारयः, )द्वादशविधपुत्रमध्ये पुत्रविशेषः तु पोषणा-द्यसमर्थमातापितृभ्यां त्यक्तः तयोरन्यतरमरणेअन्यतरेण वा त्यक्तः अनन्तरं अन्येन गृहीत्वापुत्रत्वेन परिकल्पितः यथा, --“मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा ।यं पुत्रं परिगृह्णीयादपविद्धः उच्यते”
इति मनुः