| YouTube Channel

अपविद्धः (apaviddhaH)

 
Apte Hindi
Hindi
अपविद्धः
पुं*
- -
"माता या पिता दोनों से त्यागा हुआपुत्र जिसे किसी अपरिचित व्यक्ति ने गोद ले लिया हो, हिन्दुओं में १२ प्रकार के पुत्रों में से एक"
E Bharati Sampat
Sanskrit
(पुं) अप+व्यध(ताडने)+क्तः। ‘निष्ठा’ ३.२.१०२। १.द्वादशविधपुत्रान्तर्गतः पुत्रभेदः। ‘मातापितृभ्यामुत्सृष्टंतयोरन्यतरेण वा यं पुत्रं प्रतिगृण्हीयादपविद्धः उच्यते’ मनुः९.१७१। (वि) २.तिरस्कृतः। ३.परिहृतः। ‘रक्षो विप्रकृतावास्तामपबिद्धशुचाविव’ रघुः१०.७४। ४.परित्यक्तः। ‘अपविद्धगदो बाहुर्भग्नशाख इव द्रुमः’ कुमा०२.२२। ५.दलितः, चूर्णीकृतः। ‘मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः’ रामा०।
शब्दकल्पद्रुमः
Sanskrit
अपविद्धः, त्रि, (अप + व्यध् + क्तः ।) प्रत्याख्यातः ।निराकृतः इति हेमचन्द्रः
(त्यक्तः प्रतिक्षिप्तः ।“कुवेरस्य मनःशल्यं शंसतीव पराभवं ।अपविद्धगदो बाहुर्भग्नशाख इव द्रुमः”
इति कुमारसम्भवे चूर्णीकृतः दलितः ।“मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः” ।इति रामायणे ।)