| YouTube Channel

अपरिहार्य्यं (aparihAryyaM)

 
शब्दकल्पद्रुमः
Sanskrit
अपरिहार्य्यं, त्रि, (परि + हृ + कर्म्मणि ण्यत्, ततोनञ्समासः ।) अपरिहरणीयं अत्याज्यं यथा, “जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य ।तस्मादपरिहार्य्येऽर्थे त्वं शोचितुमर्हसि”
इति श्रीभगवद्गीता