अपराधः (aparAdhaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishअपराधः [aparādhḥ], An offence, a fault, guilt, crime, sin, mistake, error
(32 kinds are usually stated in Śāstras)
कमपराधलवं मयि पश्यसि 4.29
यथापराधदण्डानाम् 1.6
सर्वापराधेषु अवध्याः खलु दूताः Abhiṣeka I. यथेन्द्रशत्रुः स्वरतो$प- राधात् Śik.52 mistake or error in accent
sometimes with or of person
अदः सुरेन्द्रस्य कृतापराधान् दैत्यान् 1.2
कृतापराधमिव त्वय्यात्मानमवगच्छति 23. -क्षमापनस्तोत्रम् A panegyric to Devī (देवीस्तोत्र) by a later Śaṅkarāchārya in which there is a striking and melodious ending at the end of each verse as कुपुत्रो जायेत क्वचिदपि कुमाता न भवति । -भञ्जनः the destroyer of sins, epithet of Śiva
˚स्तोत्रम् a short poem by Śaṅkarāchārya in praise of Śiva, the fourth line of the verses being usually क्षन्तव्यो मे$पराधः शिव शिव शिव भोः श्रीमहादेव शम्भो ।
Apte 1890
Englishअपराधः An offence, a fault, guilt, crime, sin, mistake, error
(32 kinds are usually stated in Śāstras)
कमपराधलवं मयि पश्यसि V. 4. 29
यथापराधदंडानां R. 1. 6
यथेंद्रशत्रुः स्वरतोऽपराधात् Śik. 52 mistake or error in accent
sometimes with gen. or loc. of person
अदः सुरेंद्रस्य कृतापराधान् दैत्यान् V. 1. 18
कृतापराधमिव त्वय्यात्मानमवगच्छति K. 203.
Comp.
भंजनः the destroyer of sins, epithet of Śiva
°स्तोत्रं a short poem by Śankarāchārya in praise of Śiva, the fourth line of the verses being usually क्षंतव्यो मेपराधः शिव शिव शिवभोः श्रीमहांदेव शंभो.
Apte Hindi
Hindiअपराधः
- अप+राध्+घञ्
"अपराध, दोष, जुर्म, पाप"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
E Bharati Sampat
Sanskrit(पुं) अप+राध(संसिद्धौ)+घञ् । ‘भावे’ ३.३.१८। १.आगः, दण्डयोग्यकर्मकरणम्, अकृत्यम् । ‘आगोऽपराधो मन्तुश्च’ अमरः। ‘कमपराधलवं मयि पश्यसि’ विक्रमो०४.५५।
Wordnet
Sanskrit अपराधः, पापम्, दोषः, पातकम्, दुरितम्, व्यभिचारः
अनुचितं कार्यं येन कस्यापि हानिः भवेत्।
"कदाचित् अजानन्तः एव वयम् अपराधं कुर्मः।"
प्रमादः, अपराधः, भृमः, पातः, भ्रमिः, भ्रान्तः, स्खलनम्
कार्ये अनवधानात् अथवा हेलायाः भ्रंशः।
"दण्डम् अर्हसि त्वम् अस्य प्रमादस्य। "
पापम्, कल्मषम्, किल्विषम्, पातकम्, पाप्मा, अघम्, दुरितम्, एनस्, कलुषम्, अभद्रम्, अशुभम्, वृजनम्, वृजिनम्, दोषः, अपराधः, दुष्कृतम्, कल्कम्, अंहस्, अंघस्, मन्तुः, कुल्मलम्, कलङ्कः, प्रत्यवायः, किण्वम्, अमीवम्, पङ्कम्, जङ्गपूगम्
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
"कबीरस्य मते असत्यवदनं पापम् अस्ति।"
अपराधः, पापम्, दोषः, पातकम्, दुष्कृतम्, दुष्कर्म, पापकर्म, कल्मषम्, कलुषम्, दुरितम्, दुरिष्ठम्, एनः, आगः, अघम्, अन्यायः, मन्तुः, कल्कः
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
"कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।"
अमरकोशः
SanskritWord: अपराधः
Root: अपराध
Gender: पुं
Number: all
Meaning(s):
⇒ sin
⇒ crime
⇒ fault
⇒ guilt
⇒ mistake
⇒ offence
⇒ transgression
⇒ to offend any one
Shloka(s):
2|8|26|2 ► आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने॥ (क्षत्रियवर्गः)
3|3|128|2 ► अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि॥ (नानार्थवर्गः)
3|3|224|2 ► उपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम्॥ (नानार्थवर्गः)
Synonym(s):
➠ 2|8|26|2 ⇢ आगः (आगस्) (नपुं)
➠ 2|8|26|2 ⇢ अपराधः (अपराध) (पुं) ⇒ sin, crime, fault, guilt, mistake, offence, transgression, to offend any one
➠ 2|8|26|2 ⇢ मन्तुः (मन्तु) (पुं) ⇒ man, king, fault, ruler, advice, adviser, manager, advisor, offence, mankind, arbiter, counsel, disposer, consultant, counsellor, lord of men, transgression
➠ 3|3|128|2 ⇢ अभिपन्नः (अभिपन्न) (पुं) ⇒ dead, seized, distant, assisted, undertaken, undertaking, overpowered, taken in hand, taking in hand, one who has acted wrongly towards, approaching for imploring the help of
➠ 3|3|128|2 ⇢ (अभिपन्न) (स्त्री) ⇒ dead, seized, distant, assisted, undertaken, undertaking, overpowered, taken in hand, taking in hand, one who has acted wrongly towards, approaching for imploring the help of
➠ 3|3|128|2 ⇢ अभिपन्नम् (अभिपन्न) (नपुं) ⇒ dead, seized, distant, assisted, undertaken, undertaking, overpowered, taken in hand, taking in hand, one who has acted wrongly towards, approaching for imploring the help of
➠ 3|3|224|2 ⇢ किल्बिषम् (किल्बिष) (नपुं) ⇒ sin, guilt, fault, injury, offence, disease, injustice
Related word(s):
जातिः ➡ मानसिकभावः
शब्दकल्पद्रुमः
Sanskritअपराधः, (अप + राध् + भावे घञ् ।) अका-र्य्यादिदोषः । तत्पर्य्यायः ॥
आगः २ मन्तुः ३ ।इत्यमरः ॥
स च द्वात्रिंशद्विधो यथा । आगमे ।“यानैर्व्वा पादुकैर्व्वापि गमनं भगवद्गृहे ।देवोत्सवाद्यसेवा च अप्रणामस्तदग्रतः ॥
उच्छिष्टे वाथवाशौचे भगवद्दर्शनादिकं ।एकहस्तप्रणामश्च तत्पुरस्तात् प्रदक्षिणं ॥
पादप्रसारणं चाग्रे तथा पर्य्यङ्कबन्धनम् ।शयनं भक्षणं वापि मिथ्याभाषणमेव च ॥
उच्चैर्भाषामिथोजल्पो रोदनानि च बिग्रहः ।निग्रहानुग्रहे चैव नृषु च क्रूरभाषणम्कम्बलावरणञ्चैव परनिन्दा परस्तुतिः ।अश्लीलभाषणं चैव अधोवायुविमोक्षणम् ॥
शक्तौ गौणोपचारश्च अनिवेदितभक्षणं ।तत्तत्कालोद्भवानाञ्च फलादीनामनर्पणं ॥
विनियुक्तावशिष्टस्य प्रदानं व्यञ्जनादिके ।पृष्ठीकृत्यासनं चैव परेषामभिवादनं ॥
गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथाअपराधास्तथा विष्णोर्द्वात्रिंशत्परिकीर्त्तिताः” ॥
* ॥
वाराहे ।“द्वात्रिंशदपराधा ये कीर्त्त्यन्ते वसुधे मया ।वैष्णवेन सदा ते तु वर्जनीया प्रयत्नतः ॥
ये वै न वर्जयन्त्येतान् अपराधान् मयोदितान् ।सर्व्वधर्म्मपरिभ्रष्टाः पच्यन्ते नरके चिरं ॥
राजान्नभक्षणञ्चैकमापद्यपि भयावहं ।ध्वान्तागारे हरेः स्पर्शः परं सुकृतनाशनः ॥
तथैव विधिमुल्लङ्घ्य सहसा स्पर्शनं हरेः ।द्वारोद्घाटो विना वाद्यं क्रोडमांसनिवेदनं ॥
पादुकाभ्यां तथा विष्णोर्मन्दिरायोपसर्पणं ।कुक्कुरोच्छिष्टकलनं मौनभङ्गोऽच्युतार्च्चने ॥
तथा पूजनकाले च विडुत्सर्गाय सर्पणं ।श्राद्धादिकमकृत्वा च नवान्नस्य च भक्षणं ॥
अदत्त्वा गन्धमाल्यादि धूपनं मधुघातिनः ।अकर्म्मण्यप्रसूनेन पूजनञ्च हरेस्तथा ॥
अकृत्वा दन्तकाष्ठञ्च कृत्वा निधुवनं तथा ।स्पृष्ट्वा रजस्वलां दीपं तथा मृतकमेव च ॥
रक्तं नीलमधौतञ्च पारक्यं मलिनं पटं ।परिधाय मृतं दृष्ट्वा विमुच्यापानमारुतं ॥
क्रोधं कृत्वा श्मशानञ्च गत्वा भूत्वाप्यजीर्णभुक् ।भक्षयित्वा क्रोडमांसं पिण्याकं जालपादकं ॥
तथा कुसुम्भशाकञ्च तैलाभ्यङ्गं विधाय च ।हरेः स्पर्शो हरेः कर्म्मकरणं पातकावहं ॥
* ॥
किञ्च तत्रैव ।मम शास्त्रं वहिष्कृत्य अस्माकं यः प्रपद्यते ।मुक्त्वा च मम शास्त्राणि शास्त्रमन्यत् प्रभाषते ॥
मद्यपस्तु समासाद्य प्रविशेद्भवनं मम ।यो मे कुसुम्भशाकेन प्रापणं कुरुते नरः ॥
अपि च ।“मम दृष्टेरभिमुखं ताम्बूलं चर्व्वयेत्तु यः ।कुरुवकपलाशस्थैः पुष्पैः कुर्य्यान्ममार्च्चनं ॥
ममार्च्चामासुरे काले यः करोति विमूढधीः ।पाठाशनोपविष्टो यः पूजयेद्वा निरासनः ॥
वामहस्तेन मां धृत्वा स्नापयेद्वा विमूढधीः ।पूजापर्य्युषितैः पुष्पैः ष्ठीवनं गर्व्वकल्पनं ॥
तिर्य्यक् पुण्ड्रधरो भुत्वा यः करोति ममार्चनं ।याचितैः पत्रपुष्पाद्यैर्यः करोति ममार्चनं ॥
अप्रक्षालितपादो यः प्रविशेन्मम मन्दिरं ।अवैष्णवस्य पक्वान्नं यो मह्यं विनिवेदयेत् ॥
अवैष्णवेषु पश्यत्सु मम पूजां करोति यः ।अपूजयित्वा विघ्नेशं सम्भाष्य च कपालिनं ॥
नरः पूजान्तु यः कुर्य्यात् स्नपनञ्च नखाम्भसा ।अमौनी घर्म्मलिप्ताङ्गो मम पूजां करोति यः ॥
ज्ञेयाः परेऽपि बहवोऽपराधाः सदसंमतैः ।आचारैः शास्त्रविहितनिषिद्धातिक्रमादिभिः” ॥
* ॥
अथापराधशमनं ।“संवत्सरस्य मध्ये च तीर्थे शौकरके मम ।कृतोपवासः स्नानेन गङ्गायां शुद्धिमाप्नुयात् ॥
मथुरायां तथाप्येवं सापराधः शुचिर्भवेत् ।अनयोस्तीर्थयोरङ्के यः सेवेत् सुकृती नरः ॥
सहस्रजन्मजनितानपराधान् जहाति सः” ।स्कान्दे ।“अहन्यहनि यो मर्त्त्यो गीताध्यायन्तु संपठेत् ।द्वात्रिंशदपराधैस्तु अहन्यहनि मुच्यते” ॥
अत्र कार्त्तिकमाहात्म्ये ।“तुलस्या कुरुते यस्तु शालग्रामशिलार्चनं ।द्वात्रिंशदपराधांश्च क्षमते तस्य केशवः” ॥
तत्रैवान्यत्र ।“द्वादश्यां जागरे विष्णोर्यः पठेत्तुलसीस्तवं ।द्वात्रिंशदपराधानि क्षमते तस्य केशवः ॥
यः करोति हरेः पूजां कृष्णशस्त्राङ्कितो नरः ।अपराधसहस्राणि नित्यं हरति केशवः” ॥
इति श्रीहरिभक्तिविलासे ८ विलासः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
