| YouTube Channel

अपराद्धः (aparAddhaH)

 
E Bharati Sampat
Sanskrit
(वि) अप+राध(संसिद्धौ)+क्तः(कर्मणि) ‘गत्यर्थाकर्मक०’ ३.४.७२। १.अपराधी ‘कृतवत्यसि नावधीरणामपराद्धेऽपि यदा चिरं मयि’ रघुः८.४८। २.स्खलितः, लक्ष्यतः च्युतः। ‘अपराद्धेषुस्तु लक्ष्यतः। च्युतेषुः’ हैमः। ‘निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम्’ माघः२.२७। (न) अप+राध(संसिद्धौ)+क्तः(भावे) ‘नपुंसके भावे क्तः’ ३.३.११४। ३.अपराधः। ‘न तु ग्रीष्मस्यैवं सुभगमपराद्धं युवतिषु’ शाकु०३.९।
Wordnet
Sanskrit
Synonyms:
अपराद्धः, अपराद्धा, अपराधी, पातकी, पापी, अपराधी, दोषी, कृतागाः, अन्यायी, एनस्वी
noun
यः अपराधं करोति।
"द्वौ अपराद्धौ घातितौ रक्षकैः। /कस्मिन्नपि पूजार्हेपराद्धा शकुन्तला। "