| YouTube Channel

अपराङ्मुखः (aparAGmukhaH)

 
E Bharati Sampat
Sanskrit
(वि) पराङ्मुखः। अविमुखः, अनिवृत्तः, सम्मूखीभूतः। ‘आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः। युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः’ मनुः७.८९। (स्त्री) अपराङ्‌मुखी
शब्दकल्पद्रुमः
Sanskrit
अपराङ्मुखः,
पुं,
(परा + अञ्च + क्विन्, पराक् मुखंयस्य सः, ततो नञ्समासः ।) अविमुखः सं-मुखीभूतः यथा, --“आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः ।युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः”
इति मानवे अध्याये ८९ श्लोकः