| YouTube Channel

अपरस्परः (aparasparaH)

 
E Bharati Sampat
Sanskrit
(वि) अपरे परे (सातत्येन गच्छन्ति) अपर+सुट्+प ‘अपरस्परः क्रियासातत्ये’ ६.१.१४४। १.क्रियासातत्यम्, कर्मनिरन्तरता ।‘अपरस्पराः सार्था गच्छन्ति सततमविच्छेदेन गच्छन्तीत्यर्थः’ सि०कौ०१०५०। १कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः’ अमरः। २.न परस्परः। अन्योन्यभिन्नः। (क्रि०वि) ३.सततम्, अनवरतम् अपरस्परं गच्छन्ति