| YouTube Channel

अपरवैराग्य (aparavairAgya)

 
वाचस्पत्यम्
Sanskrit
अपरवैराग्य
न०
कर्म्म० पातञ्जलोक्ते वैराग्यभेदे यथा“दृष्टानुश्राविकविषयवितृष्णस्य वशीकारसंज्ञं वैराग्य-मिति” यतमानव्यतिरेकैकेन्द्रियवशीकारसंज्ञाश्चतस्रः तत्ररागादीनां चित्तस्थानां कषायाणां विषयेष्विन्द्रियप्रवर्त्तकानांपाकाय प्रयत्नो यतमानसंज्ञं वैराग्यं ततः पक्वानां केषा-ञ्चित्कषायाणां वक्ष्यमाणेभ्यो विरागावधारणं व्यतिरेकसंज्ञंवैराग्यं, ततः पक्वानां सर्वेषामिन्द्रियप्रवर्त्तनाऽशक्तानां मन-स्यैत्सुक्यरूपेणावस्थानमेकेन्द्रियसंज्ञं वैराग्यम्, स्त्रियोन्न-पानमित्यादिषु दृष्टेषु, गुरूच्चारणमनु श्रुवः श्रवणं यस्यसोऽनुश्रवो वेदः तदुक्तेष्वानुश्राविकेषु स्वर्गादिदिव्यविषयेषुमर्त्त्येषु विनाशपरितापसातिशयत्वासूयादिदोषाणाम-भ्यासेन साक्षात्काराद्वितृष्णस्योपेक्षाबुद्धिः वंशीकारसंज्ञंवैराग्यमित्यर्थः एतानि संप्रज्ञातसमाधेरन्तरङ्गाणिअसंप्रज्ञातसंसाधेस्तु बहिरङ्गाणि” इति पा० वृ०