| YouTube Channel

अपमानं (apamAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
अपमानं,
क्ली,
(अप + मा + भावे ल्युट् ।) अनादरः ।अमर्य्यादा इति शब्दरत्नावली
तत्पर्य्यायः ।“स्यादवज्ञा परीहारः परिहारः पराभवः ।अपमानं परिभवस्तिरस्कारस्तिरष्क्रिया ।अवहेला हेला म्यादवहेलनहेलने ।क्षेपो निकारधिक्कारौ पर्य्यायः स्यादनादरे”
इति शब्दरत्नावली
*
तस्य अप्रकाश्यत्वंयथा, --“अर्थनाशं मनस्तापं गृहे दुश्चरितानि ।वञ्चनञ्चापमानञ्च मतिमान्न प्रकाशयेत्”
इति चाणक्यः
(“अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ।स्वकार्य्यमुद्धरेत् प्राज्ञः कार्य्यध्वंसे हि मूढता”)