| YouTube Channel

अपभ्रश (apabhraza)

 
वाचस्पत्यम्
Sanskrit
अपभ्रश
पु०
अप + भ्रन्श--घञ् अपक्षरणे अधःपतने “अत्या-रूढिर्भवति महतामप्यपभ्रंशनिष्ठा” शक० “अपभ्रंशतिस्वभावात् प्रच्यवते” अप + भ्रन्श--कर्त्तरि अच् साधु-शब्दस्य शक्तिवेफल्यपयुक्तान्यथाच्चारणयुक्ते अपशब्दे “तएव शक्तिवैकल्यप्रमादालसतादिभिः अन्यथोच्चारिताःशब्दा अपशब्दा इतीरिता” इति हरिणा साधुशब्दाना-मेवान्यथोच्चारणेऽपशब्दतोक्तेः तस्य स्वभावतो भ्रंशात् तथा-त्वम् “अनपभ्रंशतानादिर्यदाभ्युदययोग्यतेति” हरिः ।“आभीरादिगिरः काव्येष्वपभ्रंशगिरः स्मृताः शास्त्रेषुसंस्मृतादन्यदपभ्रंशतथोदितमिति” दण्डी