| YouTube Channel

अपथ्यः (apathyaH)

 
E Bharati Sampat
Sanskrit
(वि) पथः अनपेतः पथ्यः। पथिन्+यत् ‘धर्मपथ्यर्थन्यायादनपेतम्’ ४.४.९२। पथ्ये वैद्यकोक्तभोजनादिनियमाय नीत्युक्ताचाराय वा हितः। १.पय्यभिन्नः, वैद्योक्तिम् उल्लङ्घ्य अनिष्टः भोजनादिः, अस्वाथ्यकरः। ‘अकार्यं कार्यसङ्काशमपथ्यं पथ्यसम्मितम्’ रामा०। २.अहितः, अहिताचारः। ‘सन्तापयन्ति कमपथ्यभुजं रोगाः’ हितो०३.११७।