| YouTube Channel

अपत्रपः (apatrapaH)

 
E Bharati Sampat
Sanskrit
(वि) अपगता त्रपा लज्जा यस्मात् निर्लज्जः, लज्जाहीनः। ‘सापत्रपः कुलगुरुर्विहितस्त्वया नः’ धनञ्जयविजयः।
शब्दकल्पद्रुमः
Sanskrit
अपत्रपः, त्रि, (अप + त्रप् + भावे अङ्, ।) त्रपा-रहितः निर्लज्जः अपगता त्रपा यस्येतिबहुव्रीहौ आकारस्य ह्रस्वः
(“सापत्रपः कुल-गुरुर्विहितस्त्वया नः” इति धनञ्जयविजयव्यायोगे ।)