अपण्य (apaNya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English अपण्य apaNya unfit for sale
अपण्य apaNya unsaleable article
Apte
Englishअपण्य [apaṇya], Not saleable (the Smrtod
itis name several things which ought not to be sold by particular persons and on particular occasions)
जीविकार्थे चापण्ये 3.99.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte 1890
EnglishGoldstucker
Englishअपण्य Tatpur. m. f. n. (-ण्यः-ण्या-ण्यम्) Not to be sold, im-
proper for sale. (Articles, for instance, a Brāhmaṇa is not
permitted to sell, under the penalty of various penances,
are, according to Hārīta: molasses, sesamum, flowers,
roots, fruits, boiled rice--the penalty being the Somāyana
--
red dye (lākṣā), sea-salt, honey, flesh, sesamum-oil,
milk, curdled milk, buttermilk (takra), clarified butter,
अपण्य [CONTINUED] scents, hides, cloth--the penalty being the Chāndrāyaṇa
--
wool, hair, a horse (kesarin), land, a cow, a house,
stones, weapons, eatable flesh, tendons, bones, horns, nails,
shells--the penalty being the Taptakṛchchhra--
asafœtida,
bdellium (guggula), yellow orpiment, red arsenic, collyrium,
red chalk, medicinal and other salt (kṣāra and lavaṇa),
precious stones, pearls, corals, bambu staves, wickerwork
and earthen ware or what is appropriate for ornamental
gardens, ponds, wells and lotus tanks--the penalty in
the latter case consisting in three daily ablutions, sleeping
on the ground, eating only once on the evening of every
second day, and muttering ten thousand charms, all this
during a whole year. See also Manu 10. 86 ff.--An idol, if
it is carried about by a person for the sake of getting a
living but not for the purpose of sale, is expressed by the
same name as the divinity without an additional affix, e. g.
वासुदेव, विष्णु, स्कन्द
but if it is offered for sale, it takes
the affix कन्, e. g. वासुदेवक.) E. अ neg. and पण्य.
Apte Hindi
Hindiअपण्य
वि* - -
जो बिक्री के लिए न हो
Shabdartha Kaustubha
Kannadaअपण्य
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ವಿಕ್ರಯಿಸಲು ಅರ್ಹವಲ್ಲದ /ಮಾರಲು ಯೋಗ್ಯವಲ್ಲದ
व्युत्पत्तिः - > न पण्यः
Wordnet
Sanskrit अपण्य
धर्मशास्त्रानुसारेण यद् न विक्रीयते।
"अद्य अपण्यानि वस्तूनि अपि पण्यानि जातानि। "
वाचस्पत्यम्
Sanskritअपण्य न पण्यः विक्रेयः अप्राशस्त्ये त० । स्मृत्यादि-निषिद्धविक्रये पदार्थे । प्रायश्चित्तसहितानि अपण्यानिच प्रायश्चित्तविवेके दर्शितानि यथाविष्णुः । कृष्णवस्त्ररङ्गरत्नगुडगन्धमधुरसोर्ण्णाविक्रयी त्रि-रात्रमुपवसेत् । रङ्गः सिन्दूरकुसुम्भादि । एतत् सकृद्-विक्रये पैठीनसिः । “तथाऽविक्रेयाणि ब्राह्मणस्य लवणंपक्वान्नं मधुरक्षीरं दधि घृतमुदकं सर्व्वगन्धीलाक्षारक्तवासोगुडस्तैलं ग्राग्यरशूनामेकशाफाः केशिनः । सर्व्वे चार-ण्याः पशबोविद्यापूर्त्तमिष्टं गावः शङ्खश्चोर्ण्णा चेति विक्र-येण तेषामेकैकस्मिन् प्राजापत्यञ्चरेत्” । तथाच्यवनः “दघि-मधूच्छिपिष्टसर्पिःपक्वान्नतिलतक्रक्षीररसविषतिलाश्वनीली-कौषैयवासोलाक्षारसलवणविक्रये प्राजापत्यञ्चरेत् । एत-च्चाभ्यासविषयं तत्र धेनुरेका दातव्या । हारीतः ।“लाक्षालवणमांसतैलक्षीरदधिघृततक्रगन्धचर्म्मरक्तवाससा-मेकतमविक्रये चान्द्रायणम्” तथा शातातपः । “आममांससुरासोमलाक्षालवणसर्पिर्षाम् । विक्रये सर्व्वपण्यानां द्विज-श्चान्द्रायणञ्चरेत्” । ऐतच्चात्यन्ताभ्यासे चान्द्रायणे चाष्ट-धेनवः । भविष्यपुराणे । “गुडं तिलांस्तथा नीलीं केशगोधू-मकन्यकाः । विक्रये ब्राह्मणोऽपाञ्च कृच्छ्रं सान्तपनञ्चरेत्” ।एतद्वारत्रयाभ्यासे सान्तपने धेनुद्वयम् । हारीतः “अथो-र्ण्णिकेशिकेशरिणाञ्च धेन्वनडुदश्मशस्त्रविस्तविक्रये तप्तच्छ्रहृ-विधिः । हिङ्गुगुग्गुलुरससर्जरसहरितालमनःशिलाञ्जनगैरिकक्षारलवणमणिमौक्तिकप्रबालदन्तनखशुक्तिशङ्खवेणुवै-णवमृण्मयविक्रये च । आरामतडागोदपानपुष्करिणी-पूर्त्तसुहृद्विक्रयेषु त्रिषवणस्नाय्यधःशायी चतुर्थकालभुक्संवत्सरेण पूतोभवतीति” । आरामादिनिखिलविक्रयेह्योतदितिधर्म्मप्रदीपः । तथा “हीनोन्मानमापनसङ्करसङ्कीर्ण्णविक्रये च” । अत्र च कामाकामसकृदभ्यासापेक्षया-वैषम्यदोषः समर्थनीयः । हीनमानोन्मानमापनं तुलादीना-ङ्करसङ्कीर्ण्णत्वं द्रव्यस्याद्रव्येण । विष्णुः “प्राणिभूपुण्यसोमविक्रयी तप्तह्रच्छ्रं कुर्य्यात् । अन्नौषधिपुष्पमूलचर्मबिदल-तुषकार्पासकेशभस्मास्थिगोरसपिण्याकतिलतैलविक्रयी प्रा-जापत्यम्” । विदलः पाचितवंशादिनिर्म्मितः । तथा “श्लेष्मजतुमधूच्छ्विष्टशङ्गश्रुक्तित्रपुशीशककृष्णलोहोडुम्बरखड्गपा-त्रविक्रयी महासान्तपनम्” । श्लेष्मा चर्म्मविकारः वरुडेतियस्य पर्य्यायः । महासान्तपने धेनुद्वयम्, सुमन्तुः “देवर्षि-सोमचैत्र्यान्नापत्यकूपोदपानदारात्मनां विक्रये कृच्छ्र-द्वयम् । घृततिलतैलरक्तवस्त्रपक्वान्नानां प्राजापत्यंचरेत् ।गोविक्रयनिन्दामाह यमः । “गवां विक्रयकारी च गविरोमाणि यानि तु । तावद्वर्षसहस्राणि गवां गोष्ठे क्रमि-र्भवेत्” ॥
यच्च मनुनोक्तं सद्यः पतति मांसेन लाक्षया लवणेनच । त्र्यहेण शूद्रीभवति ब्राह्मणः क्षीरविक्रयीति, तन्नि-न्दातिशयार्थम् । गौतमः । “पशवः हिंसायोगे” अस्यार्थःयत्र विक्रीताः सन्तः पशवोहिंस्यन्ते तत्र तेषामप्यपण्यत्वम् ।यानि चान्यानि गुरुतरप्रायश्चित्तबोधकवचनानि तानिवहुतरकालाभ्यासे समूह्यानि शूद्रस्य त्वत्यन्तापदि दोषा-भावमाह पराशरः । “लवणं मधु मद्यं वा दधि तक्रं घृतंपयः । न दुष्येत् शूद्रजातीनां कुर्य्यात् सर्वेषु विक्रयम्” ॥
कालिकापुराणे । “विक्रयं सर्ववस्तूनां कुर्वन् शूद्रो न दोष-भाक् ॥
मधुचर्मसुरां लाक्षां त्यक्त्वा मांसञ्च पञ्चमम्” । एत-दप्यापदि, दोषापवादमाह गौतमः । “विनिमयस्तु रसानांरसैः पशूनाञ्च लबणकृतान्नयोस्तिलानाञ्च समेनामेन पक्वस्यसंयत्यर्थे” । पशूनां समानजातीयैरसमानजातीयैर्वा पशुभिरेवपरिवर्त्तो न तु द्रव्यान्तरेण । पक्वान्नस्य चामेन तण्डुला-दिना तावत्परिमितेनेत्यर्थः । अत्र समशब्दादत्यद्रव्यपरि-वर्त्ते न नियमः । मनुः “रसारसैर्विमातव्या नत्वे व लवणंरसैः । घृतान्नञ्चाहृतान्नेन तिलधान्येन तत्समाः” ॥
वशिष्ठः“रसारसैः समतोहीनतो वा विमातव्या नत्वेव लवणं रसैःतिलतण्डुलपक्वान्नविद्यामनुष्याश्च विहिताः परिवर्त्तकेन” ।नारदः । “अशक्तौ भेषजस्यार्थे यज्ञहेतोस्तथैव च । यद्य-वश्यन्तु विक्रेयास्तिला धान्येन तत्समाः” ॥
एतेन “काम-मुत्पाद्य कृष्यात्तु स्वयमेव कृषीबलः । विक्रीणीत तिलान्शुद्धान् धर्म्मार्थमचिरस्थितानिति” मनुवचनम् तिल-विनिमयपरम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
