| YouTube Channel

अपचितः (apacitaH)

 
E Bharati Sampat
Sanskrit
(वि) अपचाय्यते आनन्देन पूज्यते अप+ चायृ(पूजानिशामनयोः)+क्तः(कर्मणि) ‘अपचितश्च’ ७.२.३०। निपा०। १.पूजितः, अर्चितः। ‘अपचायितार्चितापचितम्’ अमरः। २.अप+चिञ्(चयने)+क्तः(कर्मणि) ‘निष्ठा’ ३.२.१०२। क्षीणः, कृशः। ‘अपचितमपि गात्रं व्यायतत्वादलक्ष्यम्’ शाकु०२.४। (न) अप+चायृ+णिच्(चिभावः)+क्तः(भावे) ‘नपुंसके भावे क्तः’ ३.३.११४। ३.पूजा
Wordnet
Sanskrit
Synonyms:
अपचितः, व्ययितः, व्ययीकृतः, व्ययीभूतः
noun
भग्नानि उपयोगशून्यानि वस्तूनि।
"अस्मिन् पण्ये अपचितानि क्रीयन्ते।"
शब्दकल्पद्रुमः
Sanskrit
अपचितः, त्रि, (अप + चाय + पूजार्थे कर्म्मणि क्तः ।अपचितश्चेति पाणिनिसूत्रेन पक्षे चायस्थानेचिभाबः अप + चि + क्तः ।) हीनः व्ययितः ।अवयवाद्यपचययुक्तः क्षीणः कृशः “अपचित-मपि गात्रं व्यायतत्वादलक्ष्यं” इति शाकुन्तले