| YouTube Channel

अपगतः (apagataH)

 
E Bharati Sampat
Sanskrit
(वि) अप+गम्लृ(गतौ)+क्तः(कर्तरि) ‘गत्यर्था०’ ३.४.७२। १.पलायितः। २अपयातः, दूरीभूतः। ‘तापो नापगतस्तृषा कृशा’ बल्लालसेनः। ३.गतः, नष्टः। ‘अपगतनवयावकैश्चिराय’ माघः७.६७।
शब्दकल्पद्रुमः
Sanskrit
अपगतः, त्रि, (अप + गम् + कर्त्तरि क्तः, अपयातेपलायिते ।) मृतः इति हेमचन्द्रः गतः ।दूरीभूतः यथा, -- “तापोनापगतस्तृषा चकृशा धूलो धौता तनोः” इत्यादि वल्लालसेनः