| YouTube Channel

अन्वेष्टा (anveSTA)

 
E Bharati Sampat
Sanskrit
(पुं) (अन्वेष्टृ) अनु+इषु(इच्छायाम्)+तृच् ‘ण्वुल्तृचौ’ ३.१.१३३। १.गवेषणशीलः। २.गवेषणकर्ता, अनुपदी ‘अन्वेष्टा स्यादनुपदी’ वैज०। ‘अन्वेष्टारो ब्राह्मणाश्च भ्रमन्ति शतशो महीम्’ नलोपाख्यानम् (स्त्री) अन्वेष्ट्री
शब्दकल्पद्रुमः
Sanskrit
अन्वेष्टा, (ऋ) त्रि, (अनु + इष् + तृच् ।) अन्वेषण-कर्त्ता तत्पर्य्यायः
आनुपद्यः इति हेम-चन्द्रः
(“अन्वेष्टारो ब्राह्मणाश्च भ्रमन्ति शत-शोमहीं” इति नलोपाख्यानं ।)