| YouTube Channel

अन्वाहार्य्यं (anvAhAryyaM)

 
शब्दकल्पद्रुमः
Sanskrit
अन्वाहार्य्यं,
क्ली,
(प्रतिमासमाहरणीयं, अनु + आ+ हृ + ण्यत् ।) मासिकश्राद्धं इत्यमरः
तत्तुप्रत्यमावास्याविहितं पार्ब्बणश्राद्धं अकृतसपिण्डी-करणस्य वत्सरान्ते प्रतिमासं यत् श्राद्धं तदितिकेचित् इति भरतः
गोभिलगृह्योक्तकर्म्मणा-माद्यङ्गश्राद्धं तदन्ताङ्गदक्षिणा यथा, --“यत् श्राद्धं कर्म्मणामादौ याचान्ते दक्षिणा भवेत् ।अमावास्यं द्वितीयं यदन्वाहार्य्यं विदुर्बुधाः”
इति गोभिलगृह्यं